पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] भाविबौधोद्धारः 373 शङ्का स्यात् । शब्दे क्लृप्त वक्तृनिबन्धनदोषस्य नित्यत्वेन वेदे अभावेऽपि दोषान्तरशङ्कायाः सुवचत्वात् । न च स्वान- प्रत्यक्षे तदा दूराद्यभावनिश्चयेऽपि अप्रामाण्यदर्शनेन तद्वदत्रापि शङ्केति वाच्यम्; शून्यमेव तत्त्रमिति स्वामवेदेऽपि तदा भ्रान्त्या- दिदोषाभावनिश्चयेऽपि अप्रामाण्यदर्शनस्य वेदेऽपि समानत्वात् । स्वमवैषम्यानुभवस्तूभयत्रापि समान इति चेन्न; सच्चप्रत्यक्षा- द्वैतागमयोः क्लप्तदोषाभावनिश्चयस्य समानत्वेन प्रामाण्य शङ्कायामप्रतिबन्धकत्वात् । न हि सत्प्रतिपक्षे उभयत्र दोषा- भावनिश्चयः किमत्र तत्वमिति जिज्ञासां प्रतिबध्नाति; विरुद्ध- विशेषादर्शन कालीनस्यैव विशेषदर्शनस्य शङ्काप्रतिबन्धकत्वात् किमत्रेति । अत्र अनयो: परामर्शद्वयविषयव्याप्तिपक्षघर्मतयोः किं तत्त्वगवाचिनदिव्यर्थः । जिज्ञासा मिति । अनयोरन्यतरद्वाध्यमिति धीप्रतिबन्धद्वारति शेषः । ननु दोषाभाववत्त्वावच्छेदेन अबाध्यत्व- निश्चयात् बाध्यत्वव्यावर्तकस्य दोषाभावस्योक्तान्यतरत्वावच्छेदेन निश्च- य उक्तधीप्रतिबन्धद्वारा उक्तजिज्ञासां कुतो न प्रतिबनातीत्यत आह - विरुद्वेति । विरुद्धघटितो यो विरुद्धार्थग्राहित्यरूपो विशेषः, तदनिश्चयकालीनस्यैव दोषाभावरूपबाध्यत्वव्यावर्तकनिश्चयस्य बाध्यत्व- धीरूपे शङ्कायां प्रतिबन्धकत्वादित्यर्थः । मिथो विरुद्धार्थग्राहित्वेन परामर्शयोजने तद्विषयीभूतव्याप्तयादौ जातेऽपि दोषाभावनिश्चये भ्रमत्वग्रहात् न तस्य बाध्यत्वधीप्रतिबन्धकत्वमिति, तद्वदेव प्रत्यक्ष श्रुत्या - दिमानयोः मिथो विरुद्धग्राहित्वेन ग्रहात् प्रत्यक्षविषयसत्त्वादौ जातेऽपि निर्दोषत्वनिश्चये भ्रमत्वग्रहात् न बाध्यत्वधीप्रतिबन्ध इति भावः । वस्तुतस्तु सत्त्वादिप्रत्यक्षे क्लृप्तदोषाभावनिश्चय एव न सम्भवति अधिष्ठानसत्त्वादेरेव सान्निध्यादिरूयेण प्रत्यक्षं प्रति दोषतया क्लृप्तेन घटादौ ज्ञेयत्वात् । तथाचाधिष्ठानसत्त्वसम्बन्धाकाराविद्यावृत्तेरुक्तस-