पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

363 परिच्छेदः] 1 vą, k यदि तु स्वरूपोपलक्षणाव्यावृत्ताकारता, तदा निष्प्रकारकतैव; उप- लक्षणस्य तत्राप्रवेशात्, स्वस्य च स्वस्मिन्नप्रकारत्वात्, न च प्रमेय- त्वादिवत् स्वस्यैव स्वस्मिन् प्रकारत्वमिति वाच्यम्; त्वयापि केव- लान्वयिन्येव अगत्या तथा अङ्गीकारात् । न तु सर्वत्र | अथ आकारप्रकारयोः अभेदात् ब्रह्माकारतैव ब्रह्मबुद्धेः तत्प्रकारतेति चेन्न; विशिष्टबुद्धेः विशेष्याकारत्वेपि तदप्रकारकत्वात्, आकार- प्रकारयोर्भेदात् । आकारश्च वृत्तिनिष्ठः कश्चिद्धर्मोऽसाधारणव्यव- हारहेतुरिति वक्ष्यते । तस्माद्यथाकाशपदाच्छब्दाश्रयत्वोपलक्षित- धर्मिस्वरूपमात्रं ज्ञायते, तद्वदत्रापि द्वितीयाभावाद्युपलक्षितब्रह्म- प्रत्युत द्विष्टतया च ब्रह्मनिर्विकल्पस्य अन्यधीमात्र विरोधित्वं सर्व- सम्मतमित्यादिकमभिप्रेत्याह – यदि तु स्वरूपेति । उपलक्षणस्येति । व्यावृत्ताकारबुद्धावविषयस्य व्यावर्तक 'धर्मस्येत्यर्थः । तत्र व्यावृत्ता- कारबुद्धौ अप्रवेशात् अप्रकारत्वात् । स्वस्य चेति । ननु स्वं स्वस्य रूपमित्यादिव्यवहारात् 'आनन्दं ब्रह्मणो रूपं, तस्य भासा ' इत्यादिश्रुत्यनूदितत्वाच्च स्वस्य स्वस्मिन्नपि कल्पित सम्बन्धोऽस्तीति कथं स्वस्य स्वस्मिन्नप्रकारत्व मिति चेत्, न; ज्ञानविशेषविषय- त्वादिरूपभेदविशिष्टाकारेण सम्बन्धप्रतियोगित्वानुयोगित्वयोः सम्भवेऽपि शुद्धस्वरूपेण तदसम्भवात्, सम्भवे वा तस्य प्रातीतिकत्वेन व्यावहा- रिकविषयकभ्रमविरोधिधीविषयत्वायोगात् | त्वयाऽपीत्यपिना प्रतिवाद्य. न्तरसमुच्चयः । अस्मन्मते केवलान्वयित्वस्यैवानङ्गीकारात् । अङ्गीकारेऽपि प्रमेयत्वं प्रमेयमित्यादौ विशेष्यविशेषणयोः प्रमेयत्वयोः भेदस्वीकारात् । कचिदिति | विषयता' शब्देन परैर्व्यवहार्य इति भावः । धर्मिस्वरूप. मात्रस्योपलक्ष्यत्वं च परसम्मत्या ' निर्णेतुं दृष्टान्तमाह तस्माद्यथेति । ? अव्यावर्तक. 3 स्वस्मिन् प्रकारत्व. 4 विषयिता. 5 1 तद्विशिष्टतया परसम्मतत्वात्. भाविबाधोद्धारः