पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] भाविबाधोद्धारः 359 विषयैव धीर्बाधिका दृष्टा, न च विश्वबाधिका धीस्तथेति चेन; अधिष्ठानतत्त्वज्ञानत्वेनैव भ्रमनिवर्तकत्वात् विश्वनिवर्तकब्रह्म- ज्ञानस्य तथात्वात् । न च सप्रकारिकैव धीः भ्रमनिवर्तिका, इयं तु निष्प्रकारिका कथं तथेति वाच्यम्; निवर्तकतायां सप्रकारकत्वस्य गौरवादप्रवेशात् । ननु आवश्यकः सप्रकार- कत्वानियमः, व्यावृत्ताकारज्ञानत्वेनैव भ्रमनिवर्तकत्वात्, अन्यथा अनुवृत्ताकारज्ञानादपि तनिवृत्यापत्तेरिति चेत्, सत्यम्; व्यावृत्ताकारत्वेन ज्ञानस्य भ्रमनिवर्तकता, न तु विशेषप्रकार- कत्वनियमः । तथाहि – व्यावृत्ताकारता हि द्वेधा भवति, विशेषणादुपलक्षणाच्च । तत्राद्ये सप्रकारकत्वनियमः, द्वितीयेsपि धर्मान्तरस्य यदुपलक्षणं तस्माद्ध्यावृत्ताकारत्वे सप्रकारकतैव । शुक्तित्वादिः । धीस्तथेति । तद्धीविषयस्य शुद्धस्य प्रपञ्चोपहित- भानेप्यवश्यं भासमानत्वात् । अथवा विशेषो व्यावर्तकधर्मः, शुद्धं च न तथेति भावः । अधिष्ठानतत्त्वज्ञानेति । अन्यविषयत्वा- निरूपिता या भ्रममूलाज्ञान विषयनिष्ठविषयता तच्छालिज्ञानेत्यर्थः । व्यावृत्ताकारत्वेन । व्यावृत्तविषयकत्वेन । ग्राह्याभावादिरूपो यो व्यावर्तकधर्मः तदाश्रयविषयकत्वेनेति यावत् । विशेषणादिति ।. व्यावृत्ताकारबुद्धौ भासमानं व्यावर्तकधर्ममादायेत्यर्थः । तादृशधर्माश्र- यविषयकत्वरूपेति यावत् । उपलक्षणादिति । उक्तभासमानान्यव्या- वर्तकधर्ममादायेत्यर्थः । तादृशधर्माश्रय विषयकत्वरूपेति यावत् । धर्मान्तरस्येति उत्तृणत्वादिरूपस्य धर्मान्तरस्य तद्व्या- प्येन काकादिना यत्रोपस्थितिस्तत्र तस्योत्तृणत्वादे ज्ञापकरूपोप- लक्षणकाकाद्याश्रयविषयकज्ञानस्योतृणत्वाभावादिभ्रमनिवर्तकस्य काका- द्यप्रकारकत्वेऽपि उत्तृणत्वादिप्रकारकत्वात्सप्रकार कतैबेत्यर्थः । न च उत्तृणत्वव्याप्यकाकादिमत्ताज्ञानस्यैव तादृशभ्रमविरोधित्वसम्भवात् उत्तू- च-