पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

346 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथम: दर्शनमेव विरोधीत्यभ्युपेयम्, अन्यथा परोक्षप्रमाया अपरोक्षभ्रम- निवर्तकत्वोपपत्तौ वेदान्तवाक्यानामपरोक्षज्ञानजनकत्वव्युत्पादन- प्रयासो व्यर्थस्स्यादिति चेन्न; 'नायं सर्पः' इत्यादिवाक्या- दिना सविलासाज्ञाननिवृत्यभावेऽपि भ्रमगताप्रमाणत्वज्ञापनेन भ्रमप्रमाणत्वबुद्धेः तद्विषयसत्यताबुद्धेश्च निवर्तनात् तावता च भ्रमनिवर्तकत्वव्यपदेशात्, भ्रमे प्रामाण्यत्रिभ्रमस्य तद्विषये सत्यताविभ्रमस्य च परोक्षत्वेनापरोक्षत्राधानपेक्षत्वात् । न हि दुष्टकरणाजन्यत्वमबाधितविषयत्वं वा प्रामाण्यं कस्यचित् प्रत्य- क्षम् । न वा सर्वदेशसर्वकालसर्वपुरुषाबाध्यत्वरूपं विषयसत्य- त्वम् । अतस्तयोः परोक्षप्रमाबाध्यत्वमुचितमेव । तयोश्च बाघितयोः रजतादिभ्रमः स्वरूपेण सन्नपि स्वकार्याक्षमत्वाद- सभिवेति बाधित इत्युच्यत इत्यनवद्यम् । ननु 'इदं रजतम्' इत्यत्र सयुक्तिकं प्रत्यक्षं बाधकं, न युक्तिमात्रम्, 'गौरोऽहम् ' इत्यत्रापि मम शरीरमिति बलवत्प्रत्यक्षमेव', 'अहमिहैवास्मि सदने जानानः' इति तु प्रमाणमेव, जीवस्याणुत्वादिति चेन्न; रजताभेदशरीराभेदप्रत्यक्षयोः जाग्रतोः रजते युक्ता प्रति- बन्धाक्षमत्वे तद्विषयप्रत्यक्षोत्पत्तेरेवानवकाशात् । न च तत्र परम्परासम्बन्धेन कर्दमलिते वस्त्रे 'नीलं वस्त्रम्' इतिवत् 'गौरोऽहम्' इति गौणम्, कर्दमवस्त्रयोरिव शरीरात्मनोः भेदा- नध्यवसायेन दृष्टान्तदान्तिकयोः वैषम्यात् । तथाचात्रैक्या- ध्यास एवोचितः । एवंच 'उष्णं जलम्' इत्यत्रापि यदि युक्तथा प्रतिबन्धाक्षमत्व इति । ननु युक्तिरपि नोत्पद्येत, प्रत्यक्षेण प्रतिबन्धादिति चेन्न; युक्तिर्हि न प्रत्यक्षमाद्यस्य अभावमवगा- हते, किंतु तद्व्याप्यम् । तथाचेदं रजतत्वाभावव्याप्यवदिति ज्ञानरूपयुक्तेः 1 प्रत्यक्षमेव बाधकम्. 2 युक्तथाः.