पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

338 अद्वतीसद्विव्याख्यायां गुरुचन्द्रिकायां [प्रथमः इति वाच्यम् वढिविशेषे औष्ण्याभावानुमाने शैत्यानुमाने वा तदभावात् । पक्षातिरिक्तस्य प्रतियोगिप्रसिद्धिस्थलस्य तत्र सवात् । न च यत्र प्रत्यक्षं प्रबलं तत्र बाधव्यवस्था, न चात्र तथेति न बाध इति वाच्यम्; प्रकृतेऽध्यौष्ण्यप्रत्यक्ष समकक्ष्यस्य प्राबल्य प्रयोजकस्य विद्यमानत्वात्, अनौष्ण्या नुमितेः मिथ्यात्वानुमितेश्च समानयोगक्षेमत्वात् । न च मिथ्यात्ववादिनां प्रतिपन्नोपाधा- वौष्ण्यनिषेधग्राह्यनुमानेन मिथ्यात्वानुमितेः समत्वमिष्टमेवेति वाच्यम्; औष्ण्यानौष्ण्ययोः भावाभावरूपतया तदनुमिति - साम्येऽपि शैत्यानुमितिसाम्यस्यानभ्युपगमात्, शैत्यस्यौष्ण्या- भावरूपत्वाभावात् । तस्मात् बाधस्य दोषता वा त्याज्या, औष्ण्यप्रत्यक्षायजमानत्वप्रत्यक्षादेः सवप्रत्यक्षापेक्षया विशेषो वा वक्तव्यः । न चौष्ण्यप्रत्यक्ष परीक्षितोभयवादिसिद्धप्रामाण्यं, सत्त्व प्रत्यक्षं तु न तथेति विशेष इति वाच्यम्; सवप्रत्यक्षेऽपि प्रामाण्यासम्मतौ हेत्वभावात् । परीक्षायास्तुल्यत्वादिति चेन्मै- चम्; विरुद्धार्थग्राहित्वेन विशेषात् प्रत्यक्षसिद्धायजमानत्वौष्ण्यादि- वच्छन्द लिङ्गग्राह्य यजमानत्वानौष्ण्याद्यपि व्यावहारिकमिति सम- त्वात् प्रत्यक्षेणं बाध्यते । प्रकृते तु सत्त्वं व्यावहारिकं प्रत्यक्ष- तु सिद्धं, तांद्वरुद्धं च न मिथ्यात्वम्, तस्य पारमार्थिकसत्वविरो धात् । अतो न व्यावहारिकसवग्राहकेण अध्यक्षेण बाध्यते । नन्वेवं वदतस्तव को वा अभिप्रायः ? किं तात्त्विकविषयत्वात् बाधकेनैव मिथ्यात्वानुमानादेर्न बाध्यता ? उत सत्त्वमिथ्यात्व- ग्राहिणो: व्यावहारिकतान्विकविषययोः परस्परविरुद्धविषयत्वा- वह्निविशेष इति । यत्र वहौ नानुमात्रा औष्ण्यमुपलब्धं 1 बाधकतैव.