पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारच्छदः] · इति विधौ प्रतिग्राहयेदिति व्यवधारणकल्पनया अर्थवादानु- सारेण प्रयोजकव्यापारलक्षणाया अङ्गीकरणात् । तस्माद्विघौ दातुरिष्टिरित्यत्र बाधकाभावात् मैत्रायणीयवाक्योक्तदूरस्थ कर्मानुवादेन अश्वदानरूपोद्देश्यसम्बन्धबोधनानुपपत्तेः अस्य वाक्यस्य कर्मान्तर- विधायकत्वसम्भवात् नामादीनामुपस्थापकानामभावेन शाखान्तराधि- करणन्यायासम्भवात् एतद्वाक्यीयदातुरुपक्रमानुरोधेन' मैत्रायणीयवाक्यी- योपक्रमस्यापि प्रयोजककर्तृत्वपरत्वव्याख्यानेन मैत्रायणीयवाक्योक्त- कर्मण एव उक्तवाक्ये विधानसम्भवात् मैत्रायणीयवाक्योपक्रमस्यापि दातुरिष्टिपरत्वस्य वक्ष्यमाणत्वाच्च । तस्मादुपक्रमानुरोधेन विधिस्थे प्रतिगृह्णातौ प्रतिग्रहप्रयोजकव्यापारे दाने लक्षणा । अथवा आख्यातेन साक्षात् परम्परासाधारणकर्तृसामान्यमाक्षिप्यते । अन्यत्र साक्षात् तदाक्षेपेऽपि प्रकृते उपक्रमानुरोधेन तदसम्भवात् परम्परया तदाक्षेपः । अथापि साक्षात्कंतु रौत्सर्गिकापेक्षस्य त्यागेन परम्पराकर्तु- राक्षेपो न मुख्य इति लक्षणेति व्यवह्नियते इति तृतीयचतुर्थे चिन्तितम् । व्यवधारणेति । प्रयोजकीभूतदातृपरत्वेत्यर्थः । प्रयोजक- व्यापारो दानं लक्षणा शब्दस्याक्षेपार्थ कत्वपक्षे बहुव्रीहिणा आदातेति # तदर्थः । विधावित्यादि । मुख्यतात्पर्यविषयो वाक्यार्थो नान्यशेष इत्यर्थः । नन्वेवं —न चानन्यपरं वाक्यमुपचरितार्थ युक्तम् ; उक्तं हि –'न विधौ परश्शब्दार्थः' इतीति भामत्यां 'विधौ विधायकशब्दे परो लक्ष्यश्शब्दार्थो न भवति' इति कल्पतरुव्याख्यानं न युज्यत इति चेन्न; भावानवबोधात्, उपचरितार्थत्वं हि तात्पर्यविषयीभूतब्रह्मा- त्माभेदान्यार्थबोधकत्वम् । तय कर्मविध्यपेक्षितकर्तृस्तुतिबोधकतया उपासनाबोधकतया वा तत्रोक्ताभेदसिद्ध्यननुकूलो लक्ष्योऽर्थो महावाक्ये न सम्भवति; तस्योक्ताभेदपरत्वादित्याशयेन लक्ष्यो नार्थ इत्यनेन 1 वाक्योक्तरूपस्य दूरस्थ. 2 ' क्रमानुबोधेन 3 स्यापेक्षार्थ. 4 दातेति. " ▬ आगमबाध्यत्वविचारः 1 325