पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] । इति शमविधिशेषत्वेन अत्यनायाससिद्धत्वरूपतत्प्राशस्त्यलक्षक- त्वादमुख्यत्वमेव । अतएव मानान्तरविरोध एव लक्षणेत्यपास्तम् । 'इयं गौः कय्या बहुक्षीरा' इत्यादिना प्राशस्त्यलक्षणायां व्यभिचारात् । परमतात्पर्यविषयीभूतार्थप्रतीतिनिर्वाहायैव सर्वा- र्थवादेषु लक्षणा । एतावांस्तु विशेषः– विधिप्राशस्त्ये लक्षणातः प्रागर्थवादवाक्यार्थज्ञानम् । तस्य प्रमाणान्तरविरोधे बाध एव । यथा 'प्रजापतिरात्मनो वपामुदक्खिदत्' इत्यादौ । अतएव तत्र गुणवादमात्रम् । प्रमाणान्तराप्राप्तौ तु अनुवादमात्रं “ अग्निर्हिमस्य भेषजम्' इत्यादौ । अतएव तदुभयत्राबाधिताज्ञातज्ञापकत्व- रूपप्रामाण्यानिर्वाहादप्रामाण्यम् । यत्र पुनः प्रमाणान्तरप्राप्ति - विरोधौ न स्तः तत्र प्रामाण्यशरीरनिर्वाहात् भूतार्थवादत्वम् । हिरण्यदानविधिशेषः प्राशस्त्यलक्षकः । रजतदाननिषेधशेषवाक्यं तु अप्राशस्त्यलक्षकं बोध्यम् । शमविधीति । ‘स ऋतुं कुर्वीत मनोमयः प्राणशरीरः' इति विहितकतु शब्दितध्यानाङ्गशमविधत्यिर्थः । आनाया- ससिद्धत्वेति । बलवदनिष्टाजनकत्वेत्यर्थः । गुणवादमात्रमिति | गौणार्थघटितमेव वाक्यार्थं द्वारीकृत्य प्राशस्त्यादिबोधकत्वम्, न तु बाघितं वाक्यार्थं द्वारी कृत्येत्यर्थः । तदुभयत्रेति । बाधि- तप्राप्तयोर्वाक्यार्थयोरित्यर्थः । भूतार्थवादत्वमिति । प्राशस्त्यादि- धीद्वारा वाक्यार्थप्रमापकत्वमित्यर्थः । तात्पर्यविषय एव श्रुतेः प्राबल्यात् बाधिते च वाक्यार्थे द्वारभूते वाक्यस्य तात्पर्यास्वीकारात् वाचस्पतिमते तस्य न सिद्धिः । मतान्तरे द्वारीभूतवाक्यार्थे अवान्तरतात्पर्यस्वीकारेऽपि प्राप्त इव बाधिते तत्र न तत्स्वीकारः बाधकप्रमाणस्य व्यावहारिक- प्रामाण्यावश्यकतया तद्विरोधेन 'यजमानः प्रस्तर: ' इत्यादे: तादृश- प्रामाण्यासंभवात् अनन्ताद्वैतश्रुतीनां परमतात्पर्यवतीनां तात्त्विकप्रामाण्य - विरोधेन तादृशप्रामाण्यस्याप्यसम्भवात् मुख्यतात्पर्याविषयवाक्यार्थान्विते A.S.V. आगमबाध्यत्वविचारः 21 321