पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] आगमबाध्यत्वविचारः श्रुतिविरोधे प्रत्यक्षस्यैव प्रामाण्यसम्भवात् । न च तात्पर्यलिङ्गानां उपक्रमादीनामत्र सत्त्वान्नाद्वैतश्रुतीनाममुख्यार्थत्वमिति वाच्यम् । यजमानः प्रस्तर: ' इत्यादावपूर्बत्वाद्ये कैकलिङ्गस्य तात्पर्य - ग्राहकस्य विद्यमानत्वात् । एकैकलिङ्गस्य तात्पर्यनिर्णायकत्वे लिङ्गान्तरमनुवादकमेव । त्वन्मते प्रत्यक्षासद्धे भेदे श्रुतिरिव किं बाहुल्येनेति चेन्न; वाक्यशेषप्रमाणान्तरसंवादार्थक्रियादि- परीक्षापरीक्षितस्य प्रत्यक्षस्य प्राबल्येन व्यवहारदशायामेव एत- द्विरुद्धार्थ ग्राहिणः “धूम एवानेर्दिवा दहशे, अदितिद्यः, यज- मानः प्रस्तरः " इत्यादे: तद्विरोधेनामुख्यार्थत्वेऽप्यद्वैतागमस्य परीक्षितप्रमाणविरोधाभावेन मुख्यार्थत्वोपपत्तेः । प्रत्यक्षादेहिं परीक्षया व्यावहारिकप्रामाण्य मात्रं सिद्धम् । तच्च नाद्वैतागमेन बाध्यते । बाध्यते तु ताश्विकं प्रामाण्यम् । तत्तु परीक्षया न सिद्धमेव । अतो न विरोधः । धूम एवाग्नेरित्यादेस्तु मुख्या- र्थत्वे प्रत्यक्षादेर्व्यावहारिकं प्रामाण्यं व्याहन्येत । अतो विरो- धात्तत्रामुख्यार्थत्वमिति विवेकः । यत्तु प्रत्यक्षाविरोधाय तत्त्वं पदयोर्लक्षणा नाश्रीयेतेति, तन्न; षड्डिधलिङ्गैर्गतिसामान्येन च अखण्ड एव अवधार्यमाणस्य तात्पर्यानुपपत्तेः, जीवेशगत- संक्षेपेण सर्वेषां गोणार्थानां निर्णायकत्वादिति भावः । अपूर्वत्वादीति । प्रत्यक्षविरुद्धार्थस्य मानान्तराज्ञातवत्रूपमपूर्वत्वमित्यर्थः । वाक्यशेषेति । विधिवाक्यरूपेण वाक्यशेषेण सह अर्थवादानामेकवाक्यत्वानुरोधात् स्तुतिपरत्वनिश्चयादन्यपरैः तैर्न प्रत्यक्षादिविरुद्धार्थसिद्धिारति प्रत्यक्षादि- प्रबलमित्यर्थः । अथवा तस्माद्धूमेत्यादिवाक्यस्य शेषो मन्त्रादिविधिः । तेन दिवादृष्टामघधिकरणकहोमे मन्त्रविधानात् अमचर्चिरादीनां दिवा- दर्शनादिप्रत्यक्षं वाक्यशेषपरीक्षितमिति भावः । जीवेशगतेति । ब्रह्म- पदवाच्यस्य सर्वज्ञत्वादिविशिष्टस्याहंपदबाव्यस्य अहंकारायुपहितचित्त्व 6 311