पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रत्यक्षस्यानुमानबाध्यत्त्वम् 299 अप्य रूपेण कुशश्रुत्यनुमानेन च बाध्यत इति सर्वमीमांसा उन्मृदिता स्यादिति चेन; वैषम्यात् । तथाहि — किमिदमापाद्यते श्रुतित्रयग्राहिप्रत्यक्षं ? अनुमानैः बाध्येतेति वा ? प्रत्य- क्षविषयीभूतश्रुतित्रयमिति वा नाद्यः; विरोधाभावेन तद्धा- यत्वप्रसिद्ध्या च शिष्टत्वशङ्कया तदीयस्मृतेरपि वेदमूलकत्वमिति प्राप्ते, तेषामशिष्टत्वेन त्रयीतद्विदोः प्रसिद्धेः शिष्टत्रैवर्णीकानां धर्मतया परिग्रहस्य पूर्वाधिकरणमुख्यहे तोरभावात् वेदाप्रामाण्यवादिभिरेव तत्पार- ग्रहाच्च न सा प्रमाणम् । सूत्रं तु तथा व्याख्येयमिति वार्तिकम् । तदेवं सापेक्षत्वात् कल्प्यश्रुतिमूलकत्वाच्च निरपेक्षक्लृप्तश्रुत्यपेक्षया दौ- ल्यात् तद्विरुद्धार्थकस्मृतिरप्रमाणमिति भाष्ये उक्तम् । वार्तिके तु स्वपरप्रत्यक्षयोः श्रुत्योः तुल्यत्वेन तादृशस्मृतेः प्रमाणत्वेप्युक्तशङ्कया तदर्थाननुष्ठानमुक्तम् ; शिष्टपरिगृहीततादृशस्मृतावुक्तशङ्काया सम्भवात् पश्चाद्वर्णकान्तरमुक्तम् । अनुमानाद्यपेक्षया प्रत्यक्षस्य तत्त्वेन प्राबल्यं तु न कुत्राप्युक्तम् । तथाप्युक्ताधिकरणे तदुक्तमिति भ्रान्त्या प्रत्यक्षापेक्षया अनुमानबलत्वे उक्ताधिकरणविरोधः स्यादित्याशयेन परण 'वेष्टनश्रुत्यनुमानेनेत्युक्तम्' । यद्यपि सामर्थ्यरूपलिङ्गापेक्षया श्रुतेः प्राबल्यं तत्प्रवृत्तिपूर्वमाकांक्षोच्छेदकत्वात् । न तु प्रत्यक्षविषयत्वात्प्रत्यक्ष- विषयलिङ्गादीनामपि, वाक्याद्यपेक्षया प्राबल्यात् । अतएव 'पारदौर्बल्य- मर्थविप्रकर्षात्' इति सूत्रोक्तोच्छेदकत्वं हेतूकृतम् । तथाच श्रुत्यपेक्षया लिङ्गस्य तथा प्राबल्यं न शङ्कास्पदम् । तथापि प्रत्यक्षविषयत्वात् तत्प्राबल्यामति भ्रान्त्या शेषत्व श्रुत्यनुमानेनेत्याशङ्कतं परणेति चोध्यम् । श्रुतिलिङ्गविरोधस्तु पूर्वमेवोदाहृतः । चोदनेति । ' सोमारौद्रं चरुं निर्वपेत् कृष्णानां त्रीहीणामभिचरन् ' इति विहितेष्टौ शरमयं बर्हिः ' इति श्रुताश्शराः चोदकेन प्राप्तयर्ह कुशमयबर्हिः बाधन्ते 1त्यनुमानेनाप्युक्तम् . 2 शेष. , , ' , •