पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः सर्ववेष्टनश्रुत्यनुमानेन 'कदाचन स्तरीररासि नैन्द्र सञ्चसि दाशुषे ' इति मन्त्रसामर्थ्यलक्षणेन इन्द्रशेषत्वश्रुत्यनुमानेन चोदनालिङ्ग- मानहेतोः अनुमानत्वमते | हेतुज्ञानस्यानुमानत्त्वमतेतु स्मृतिरूपेणेत्यस्य । स्मृतिविषयकेणेत्यर्थः । औदुम्बरीसर्ववेष्टनस्मृतिः तादृशश्रुतिमूलिका, बाघकाभावे सति शिष्टपरिगृहीतस्मृतित्वात्; या बाघकाभावे सति यदर्थक शिष्टपरिगृहीतस्मृतिः, सा तदर्थक श्रुतिमूलिका, यथा प्रत्यक्षश्रुतिमूलकस्मृ- तिरित्यनुमानरीतिः । नेन्द्रेत्यादि । कदाचनेत्यादिमन्त्रगतेनेन्द्रेत्यादि- भागस्थेन्द्रादिपदानामिन्द्रादिप्रकाशनसामर्थ्यलक्षणेनेत्यर्थः । शेषत्व- श्रुतीति । उक्तमन्त्रस्य उक्तसामर्थ्यम् उक्तमन्त्रस्य इन्द्रशेषत्वबोधक- श्रुतियुक्तम्, उक्तसामर्थ्यत्वात्; यद्यन्निष्ठं यदर्थप्रकाशनसामर्थ्य तत्त- निष्ठस्य तदर्थप्रकाशनशेषत्वस्य बोधकश्रुतियुक्तं, प्रत्यक्षश्रुतिविनि- युक्तमन्त्रसामर्थ्यवदिति बोध्यत् । चोदनालिङ्गेति । विधिवाक्य- सादृश्येत्यर्थः । सोमारौद्रश्चरुः श्रुतिबोधितकुशबर्हिश्शेषताकः; तादृश- पौर्णमाससदृशचोदनाकत्वात्, यद्यच्छ्रतिबोषितयच्छेषताकयदीयचोदना - सदृशचोदनाकं तत्तच्छ्रुतिबोधिततच्छेषताकं, यथा 'यद्ब्राह्मणानि पञ्च हवींषि ताह्मणानीतराणि समानमितरच्छयेनेनेत्यादिप्रत्यक्षवचनाति- देशबोधितशेषताकामति सामान्यतोऽनुमानं बोध्यम् । सादृश्यं च निर्वपतिधातुद्विदैवत्यत्वादिघटितं बोध्यम् । अधिकरणं तु लिख्यते प्रथमतृतीये चिन्तितं – ज्योतिष्टोमे सदोनामकस्य मण्डपस्य मध्ये औदुम्बरी निखन्य स्थाप्यते । तस्याः सर्ववेष्टनं ' सर्वा औदुम्बरी वेष्टयितव्या' इति स्मृत्या विहितं “औदुम्बरीं स्पृष्टोद्गायेद्” इति 'प्रत्यक्षश्रुत्या च तस्याः स्पर्शनं विहितम् । तदेवं प्रत्यक्ष श्रुतिविरुद्धार्था- स्मृतिः प्रमाणं न वेति संशये शिष्टप्रणीतस्मृतित्वादविरुद्धार्थकस्मृति- वत् श्रुतिमूलकत्वसम्भवात् प्रमाणमेव सा । श्रुतिविरुद्धार्थकत्वेऽपि व्रीहियवादिश्रुतिवत्तन्मूलश्रुतेरुपपत्तेः । न चैवं श्रुतिलिङ्गादिषु पूर्वपूर्वेणो - 296