पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] 293 नियमे व्यभिचारिलिङ्गकप्रमानुमितौ व्यभिचारोक्तिरयुक्ता; व्याप्तयादि- शब्देन विषयाबाधस्योक्तत्वात् । तथाचानुमेयमात्रस्य तत्समसत्ता; अस्त्येवेत्यव्यभिचारात् । गगनस्य व्याप्यत्वापत्तिस्तु इष्टैव; पक्षघर्मताधी- विलम्बादेवानुमित्यभावात् । ध्वनिधर्मेत्याद्ययुक्तं; दीर्घत्वादिज्ञानस्यैव कारणत्वात्, तार्किकादिमते दीर्घत्वादेर्वर्णेषु सत्यत्वाच्च । अखण्ड- वाक्यार्थेत्याद्ययुक्तम् ; संसर्गस्यैव वाक्यार्थत्वात् । ज्ञानप्रामाण्यं मिथ्येत्ययुक्तं; मिथ्यात्वानुमितेरपि मिथ्यात्वांशे प्रामाण्ये मिथ्यात्वापत्तेः, जरद्गवादिवाक्यस्यापि मिथ्यात्वांशे प्रमात्वापत्तेश्च । यत्स्वरूपमुपजीव्यते तन्न बाध्यत इत्याद्ययुक्तम् ; विषयाबाधस्यातात्त्विकत्वेऽनुमित्यादेर- प्रामाण्यापत्तेः । अपेक्षितग्राहित्वमात्रेण चेदुपजीव्यतेत्याद्ययुक्तं; यद्धी प्रमात्वं यद्धीप्रमात्वे प्रयोजकं सा तस्या उपजीव्येत्यत्रादोषात् । प्रयोजकत्वं च योगक्षेमसाधारणम् । तत्र योगांशः स्वरूपसिद्धयर्थ- मित्यनेनोक्तः । क्षेमांशस्तु अपवादनिरासार्थमित्यनेनेति । परीक्षया स्वसमानदेशकालीनो विषयाबाधः सिद्ध्यतीत्याद्ययुक्तम् ; मिथ्यात्वानु- मितेः स्वदेशकालयोरपि घटादिनिषेधविषयकत्वेन उपजीव्यविरोधापार- हारात् । मिथ्यात्वप्रमाणेन घटादिस्वरूपस्यापि बाध्यमानत्वेन धर्मिग्राहक- मानबाघात् " इत्यादि पलपितं, तन्न; मिथ्यात्वस्यातात्त्विकस्यैवानुमेय- त्वात् । व्याप्तयादिपदेन विषयाबाधोक्तिस्तु तवैवोचिता; प्रतिवादिना विचारे आधुनिकलक्षणया पण्डितेन शब्द प्रयोगात् | विषयाबाघशब्दं प्रायः त्वद्गुरुः प्रस्मृतवान् । अन्यथा शतवारं व्याप्तयादीति लाक्षणिकशब्दं न ब्रूयात् । किंच विषयाबाधरूपप्रामाण्यमिथ्यात्वे विषयो मिथ्या स्यादिति पश्चात् शङ्कितवान् । तदपि प्रायः विस्मृत्या । अन्यथा पूर्वोत्क्तं वदन्नुन्मत्त- कल्पः स्यात् । अपि च विषयाबाधसमसत्ताकमनुमेयमस्मत्सम्मतमेव । गग- नादेर्व्याप्यत्वं तु न युक्तम् । यद्यपि हि गगनादेरवृत्तित्वधीकाले व्याप्यतया असत्यत्वाच. प्रत्यक्षस्योपजीव्यत्त्वभङ्गः 1