पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

280 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकार्या [प्रथमः हस्सु चोदकेन प्राप्तया ऐन्द्रया सुब्रह्मण्यया बहुविषयया यथा बाधः, बहुबाधस्यान्याय्यत्वात् । तथा द्वैतग्राहिप्रत्यक्षतदुप- जीव्यनुमानकर्मकाण्डसगुणोपासनावाक्यादिरूपबहुप्रमाणाबा धायाद्वैतवाक्यस्य प्रतीतार्थबाधः किं न स्यात् । तदुक्तं बहुप्रमाण- विरोधे चैकस्याप्रामाण्यम् । दृष्टं शुक्तिरजतज्ञान इति चेन्न; दृष्टान्ते बहुविषयया बाधः अत्र बहुभिरिति वैषम्यत्, देहात्मैक्ये प्रत्यक्षानुमानशब्दाभासादिसत्त्वेऽपि देहात्मभेदबोधकस्यानन्य- परत्वेन प्राबल्यवदत्रापि अनन्यपरत्वेनाद्वैतश्रुतेः प्राबल्यात्, - - ऐन्द्रीप्राप्तत्वादित्थमेव सामञ्जस्येऽध्याहारवशेन व्याख्यानं परेषां स्वमतिव्याख्यानार्थमेवेति ध्येयम् – द्वैतग्राहीति । द्वैतसत्त्वग्राहीत्यर्थः । वैषम्यादिति । 'भूयसां सधर्मत्वम्' इति सौत्रपदद्वयेन भूयो- विषयक प्रमाणानुरोधेन स्वल्पविषयकप्रमाणबाघ इति न्यायशरी- रम् । न त्वेकस्मिन्नेव विषये भूयसां प्रमाणानामनुरोधेन स्वरूप- प्रमाणबाघ इति सर्वत्रैव शब्दानुमानाभासानां भूयसां सम्भवात्, भूयो- - विषयकैकप्रमाणेनस्वल्पविषकबहूनां प्रमाणानां बाधाभावापत्तेश्च किञ्च श्रुत्यनुमान दृश्यत्वाद्यन्यथानुपपत्तिरूपाणां नानाविधानां मिथ्यात्वप्रा- हकमानानां जीवेश्वरयोरैक्यबोधकानन्तश्रुत्यनुमानार्थापत्तीनां च बहू- नामनुरोधेन द्वैतसत्त्वप्रत्यक्षमेव बाधितुमुचितम् । कर्मकाण्डसगुणो- पसनावाक्यादिकं तु द्वैतमिथ्यात्वविरोध्यविषयकं मिथ्यात्वनिश्चयपूर्वमेव प्रवर्तत इति तदबाधायाद्वैतवाक्यार्थबाषोक्तिः प्रलाप इति भावः । एकविषयकप्रत्यक्षतदुपजीव्यनुमानाद्याभासानां बहुत्वमात्रेण अनुमाश्य- त्वेऽतिप्रसङ्ग इत्याशयेनाह – देहेति । प्राबल्यादिति । निरवकाशत्वे - नेत्यादिः । तर्हि प्रत्यक्षस्यापि निरवकाशत्वात्तात्विक प्रामाण्यव्यवहाराच 1 ऐन्द्रयाः.