पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

276 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः निषेधपरत्वे अवते अद्वैतभुतेरपि निरवकाशत्वात्, प्रत्यक्ष- स्यापि व्यावहारिकद्वैतविषयतया सावकाशत्वात् विरुद्धयोग द्वयो' 'अहं मनुष्यः' इत्यादिप्रत्यक्ष 'आकाशवत्सर्वगतच नित्यः' इत्यादिश्रुत्योरिव तात्त्विकप्रामाण्यानुपपच्या कस्य- चिव्यावहारिकं तस्यचित्तात्विकं प्रामाण्यमभ्युपेयम्, अत्यन्ता- इत्यादिकमात्मनो जगदुपादानत्व बोधकत्वात् कारणं बिना कार्यं नास्ती- त्युपपत्तिः । एवमन्यत्रापि बोध्यम् – निरवकात्वादिति | विषयान्तर - परतया सावकाशत्वाभावादित्यर्थः । किञ्च नात्र काचन भिदाऽस्ति इत्यादिश्रुत्या नेह नानास्तीत्यादिश्रुतेरे कार्थत्वस्योक्तत्वात् उक्तव्याख्यानं प्रलापः । न च भिदापदस्यापि विनाश्यर्थकतया यतो विनाशि अतो नास्तत्यिर्थ इति वाच्यम्; अत्र भिदामिव मन्यमानः शतधा मृत्यु- माप्नोतीत्युत्तरासङ्गतेः । अत्र सावकाशनिरवकाशन्यायस्यापि निश्चित- प्रामाण्यकोभयविषयकत्वम्; अन्यथा 'अयं गौरश्वः' इत्यादेरपि स सगौर्नाश्व इत्यादिसङ्कोचकत्वं स्यादित्याशयेन – भुतेरपीत्यपिशब्द उक्तः । यत्तु — — सत्त्वप्रत्यक्षाविषये मिथ्यात्वबोधकतया अद्वैत श्रुतेः साम काशत्वसम्भवेन प्रत्यक्षस्यापि तात्त्विकप्रामाण्यसंभवे व्यावहारिक- प्रामाण्यस्य अप्रामाण्यपर्यवसितस्य तत्रोक्तिरयुक्ता' इति ततुच्छम् ; प्रत्यक्षाविषये व्यावहारिके मिथ्यात्वबोधनेऽपि त्वन्मतोपमर्दात् । अथ तत्राप्यनुमानादेः सत्वग्राहकस्य निरवकाशत्वेन मिथ्यात्वश्रुतिर्न प्रवर्तते', तर्हि तस्या निरवकात्वं स्थिरमेव । अथ उक्तानुमानादेः सम्भावितदोष- त्वात् ' प्राबल्यमागमस्य' इत्यादिश्रुतेश्चाद्वैत श्रुतिबाध्यता, तदा सत्त्व - प्रत्यक्षस्यापि सत एव सा अस्तु । किञ्च ‘अशब्दमस्पर्शमरूपम् ' इत्यादिश्रुतेः प्रत्याक्षाविषये कथं सावकाशत्वं; शब्दादेः प्रत्यक्षाविषयत्वे 6 " 1 गौणाश्व. 2 श्रुतिर्निवर्तेत 3 सत्य.