पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

266 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः देशापेक्षया प्रबलं स्यात्। एतेन – “लिङ्गात् श्रुतेरिव शीघ्रगामि - त्वात् प्रत्यक्षस्य प्राबल्यम् । तदुक्तम्- प्रत्यक्षे चानुमाने च यथा लोके बलाबलम् । शीघ्रमन्थरगामित्वात्तथैव श्रुतिलिङ्गयोः ॥ ” इत्यपास्तम्, परीक्षितस्य मन्थरगामिनोऽपि प्राबल्यात् । बोधनात्' । तच्च ब्राह्मणवाक्यत्वेन मन्त्रलिङ्गापेक्षया प्रबलम्, यद्यप्यन्य- दैवत्यः पशुरितिवत् । तथाच लिङ्गस्य वाक्यबाध्यतायामुक्तोदाहरणं युज्यते, न तु लिङ्गस्य श्रुतिबाध्यतायां, तथापि वाक्यस्यापि श्रुतिघटित- त्वात् श्रुतिवाक्याभ्यां बाध्यस्यापि प्रधानेन व्यपदेशात् श्रुतिमात्रबाध्यत्व- व्यपदेश इति तत्राप्युक्तोदाहरणं युक्तमिति चिन्तितम् । तथाच शीघ्रप्र- वृत्तत्वाद्यथाश्रुतिर्लिङ्गापेक्षया प्रबला तथा श्रुत्याद्यपेक्षया प्रत्यक्षमिति शङ्कां निरस्यति- एतेनेति । लिङ्गापेक्षणीयतया लिङ्गात् प्रबलश्रुतेः ताकत्वेऽपि प्रत्यक्षस्योक्तरीत्या न्यूनबलत्वेन श्रुत्याद्यबाधकत्वेने त्यर्थः । ननु प्रत्यक्षस्य उक्तरीत्या न्यूनबलत्वेऽपि श्रुत्याद्यपेक्षया शीघ्रगा- मित्वेन प्राबल्यम्, श्रुत्यादेराकाङ्क्षादिनिश्चाय कमानान्तरसापेक्षत्वेन मन्थरगामित्वात्, तत्राह – परीक्षितस्येति । प्राबल्यहेतुयुक्तस्येत्यर्थः । अतएव ब्राह्मणवाक्यस्य मन्थरगामिनोऽपि मन्त्रलिङ्गात्प्राबल्यमुक्तम् । विवरणकारीयन्यायनिर्णयादौ च लिङ्गादेस्तात्पर्यवत्त्वेन प्रबलस्य श्रुत्या द्यपेक्षया प्राबल्यमुक्तम् । मन्थरगामित्वमात्रेण दुर्बलत्वे चन्द्रप्रादेशिकत्वा- दिप्रत्यक्षापेक्षया चन्द्राप्रादेशिकत्वाद्यागमानुमानाद्यपि दुर्बलं स्यादि भावः दशमाष्टमे 'अविशेषेण यच्छास्त्रमन्यायत्वाद्विकल्पस्य तत्स- न्दिग्धमाराद्विशेषशिष्टं स्यात्, इत्यधिकरणे चिन्तितय् – ज्योतिष्टामे श्रुते । पदे जुहोति, वर्त्मनि जुहोति इत्यादौ, अन्यत्र श्रुते- 1 बोधनसंभवात्. 6