पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रत्यक्षबलखण्डनन् 263 बायातावहमदर्शमहमश्रौषमिति, य एवं ब्रूयादहमदर्शमिति तस्मा एव श्रद्दधते " इत्यामनन्ति ; तत्परीक्षितप्रामाण्यक प्रत्यक्षप्राबल्यानुवादः, अपरीक्षितप्रत्यक्षस्थले वैपरीत्यस्यैव लोके दर्शनादिति नास्मत्प्रतिकूलम् । तस्मादैतरेयब्राह्मणप्रथमाध्यायशेषवाक्यमस्मदनुकूलमेव || परिच्छेदः] ● ‘अमे ऋग्वेदो वायोर्यजुर्वेद आदित्यात्सामवेदः' इत्युपक्रम्य ज्योतिष्टोमे श्रूयते----' तस्मादुच्चैऋचाक्रियते, उपांशु यजुषा, उच्चै - स्साम्ना इति । तत्र उच्चैष्टादिकमृगादिपदार्थमुद्दिश्य विधीयते । स किं तत्पदस्य मुख्यार्थो मन्त्रविशेष: ? उत उपक्रमस्थ ऋग्वेदादिपद गृही- ततात्पर्यानुपपत्त्या लाक्षणिक ऋग्वेदादिविहितकर्माङ्गमन्त्रमात्ररूपोर्थः ? इति संशये, ऋग्वेदादिपदानां विध्यपेक्षितस्तुतिबोधकत्वेन गुणभूता- र्थवादस्थत्वात् न प्रधानभूतविधिवाक्यस्थेषु ऋगादिपदेषु लाक्षणि- कार्थतात्पर्य ग्राहकत्वं, किन्तु वेदपदानामेव विधिस्थर्गादिपदा- नुरोधेन लक्षणया वेदैकदेशमन्त्रमात्रपरत्वमङगुणविरोधन्यायात्, अप- च्छेदन्यायेन पश्चात्तनविधेः प्राबल्यादनुवादे लक्षणाया अदोषत्वाच्चेति प्राप्ते — ऋग्वेदादेरुद्देश्यतया विधेयतया वा वाक्यार्थ प्रवेशे स्तूयमानत्वा- नुपपत्तेः, प्रधानस्यापि विधिवाक्यस्य स्वगतऋगादिपदेषु वेदलक्षणां विना निर्वाहाभावात् अङ्गगुणविरोधन्यायानवतारात् । अतएवापच्छे- दन्यायस्याप्यप्रवृत्तेरेकवाक्यत्वाभावे सत्येव तन्नयायेन परेण पूर्वोपमर्द - स्वीकारात् विधिस्थर्गादिपदानामपि उद्देश्यसमर्पकत्वेनोक्तरीत्या अर्थ- वादोक्तार्थबोध कत्वावश्यकत्वेन चानुवादकत्वाल्लक्षणाया अदोषत्वाच्च तेष्वेव लक्षणा । न वेदपदेषु । न च वेदपदेष्वेव लक्षणया ऋगादिमन्त्रा- णामेव स्तूयमानत्वसम्भवात् न विधिस्थपदेषु लक्षणेतिवाच्यम् तेषु लक्षणा- ग्राहकाभावात्, विधेः पूर्वमनुत्पन्नतया पूर्वोत्पन्नेषु लक्षणारूपोपमर्दाक्षम- त्वात् लक्षणां विनैवाऽमेः ऋगित्यादिना मन्त्रस्तुतिधीसम्भवेन वेदपदानां वैयर्थ्यापत्तेश्च । मन्त्रमात्रं च न वेदशब्दस्य मुख्यार्थः एकदेशाध्ययने- ु