पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

258 अद्वैतसिद्धिव्याख्यायां गुरुचान्द्रकायां [प्रथमः शोभते । सर्वमिथ्यात्ववादो हि शून्यवादः । अतएवास्तु तर्हि शून्यतैवेत्यादिबौद्धाधिकारीयपूर्वोक्तवाक्ये शून्यतायाः परतः सिद्धावन- वस्थादिकमुक्ता स्वतस्सिद्धत्वमाशङ्कय आयातोऽसि मार्गेणेत्यादिना अस्मन्मतप्रसक्तया शून्यवादत्वहानिरुक्ता । अधिष्ठानमात्रसत्यतायां तु शून्यवादस्य मन्मताविशेषः । वाचस्पत्यादिभिरपि तत्वप्रमाविर- हेण प्रपञ्चबाघो न स्यादिति शून्यवादो दूषित । खण्डने च सौगतब्रह्मवादिनोरयं विशेष:--' यदाद्यस्य सर्वमनिर्वाच्यं अन्त्यस्या- त्मान्यत्' इत्युक्तम् । तस्माच्छून्याशून्यमतधीशून्योसीति व्यक्तम् । यदपि — “चक्षुरादिना धर्म्यादिग्रहेऽपीत्याद्ययुक्तम् ; श्वैत्यानुमित्याद्य- निवर्तितपीतभ्रमनिवर्तकजातिविशेषावच्छिन्नधीजनकत्वेन प्रत्यक्षस्य प्राब- ल्यसम्भवात् । प्रत्यक्षागृहीत धर्मादिग्राहकत्वेनेत्याद्ययुक्तम् ; यत्प्रमाण- विषयगतविशेषस्य तदगृहीतस्य ग्राहकम् यत्प्रमाणं ततो हि तत्प्रबलम् । धर्मादिकं च न प्रत्यक्षविषय इति न प्रत्यक्षाच्छब्दः प्रबल इत्यदोष: " इति, तदपि तुच्छम्; जात्या प्राबल्यमित्यस्य हि प्रत्यक्षत्वमात्रेण प्राबल्यमित्यर्थः । तदनिवर्तित भ्रमनिवर्तकत्वादिना ततः प्राबल्यं तु पश्चादाशङ्कय दूषणीयम् । किंच निर्दोषचक्षुषः त्वगनिवर्तितवंशोरग- भ्रमनिवर्तकत्वात् त्वगपेक्षया प्राबल्यापत्तिः कथमुद्धृता ? काठिन्य- विशेषादिविषयक वंशत्याचप्रत्यक्षस्यापि मण्डूकवसाञ्जनरूपचक्षुर्दोषसत्त्वे तादृशभ्रमानिवर्तकत्वात् । चाक्षुषविशिष्टबुद्धौ त्वाचबाधबुद्धिप्रतिबद्धय- त्वस्य तार्किकाद्यसम्मतत्वाच्च । अत एव चक्षुरनिवर्तितवंशोरगभ्रम- निवर्तकत्वा चक्षुरपेक्षया त्वक्प्राबल्यं स्यादित्याशङ्कापि तवासङ्गतैव । अपि च यद्यदनिवर्तितभ्रमनिवर्तकं तत्ततः प्रबलमित्युक्तौ प्रत्यक्षानिवर्तितं यागादाबधर्मत्वभ्रमं प्रति श्रुतेर्निवर्तकत्वात् प्रत्यक्षात्सा प्रबला ते स्यात् प्रत्यक्षत्वेन उक्तनिवर्तकविशेषणे शाब्दत्वविशेषणमादायापि तथा नियमः किं न स्यात् । अथ माहशविशिष्टविषयकयदानेवर्तितं ,