पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रत्यक्षबलखण्ड नम् 251 इत्यादावपि 'नीलः' इत्यादिरधिष्ठानानुवेध इति स्यात् । न च नैल्यं घटादिष्वस्ति सत्त्वं तु नेति वाच्यम्; अस्यारो- पितत्वसिद्धुत्तरकालीनत्वेनान्योन्याश्रयात् । अन्यथा 'सत्यं ज्ञानम्' इत्यत्रापि सत्यमित्याधिष्ठानानुवेध एव स्यादिति चेत् न; सन्नित्यस्य घट इत्यनेन सामानाधिकरण्यस्य बाधित- त्वात् । तथाहि सत्ताजातिस्फुरणनिबन्धनं वा, स्वरूपसत्त्व- निबन्धनं वा, कालत्रयाबाध्यत्वनिबन्धनं वा, सामानाधिक- रण्यं स्यात् । न चाभावादिसाधारणसत्प्रतीतौ सत्ताजातिस्फु- रणं सम्भवति, अभावादिषु त्वयापि तदनङ्गीकारात् । न च क्वचित्साक्षात्सम्बन्धेन क्वचित् परम्परासम्बन्धेन सदिति प्रती - त्युपपत्तिः, विजातीयसम्बन्धेन समानाकारप्रतीत्यनुपपत्तेः । सम्भवात् ज्ञानरूपत्वेन ज्ञेयमात्र सम्बन्धत्वाच्च सद्रपब्रह्मतादात्म्य- मुक्तधीविषयो निर्णीयते । न त्वन्यादृशसत्तासम्बन्धः, असम्भ वात् । किञ्च उक्तमिथ्यात्वाभावविषयकत्वे सिद्धे त्वनिष्टं सेत्स्यति । न च तत्रयं साधयितुं शक्तं, सद्रूपतादात्म्यविषय कत्वस्य त्वत्सिद्धत्वेऽपि मिथ्यात्वरूपारोपितत्वसिद्धिः स्सम्भवत्येवेति क्वान्योन्याश्रयनेत्याशयेनाह—न सन्त्यिस्येति । यद्यपि जातिनि- बन्धनमित्यव वक्तुमुचितं, तथापि जातेः सर्वगतत्वमते तथा वक्तुम- शक्यतया स्फुरणनिबन्धन मित्युक्तम् । विजातीयेति । सर्वत्र एक- जातीयसम्बन्धेन सत्ताप्रकारकत्वेन मानसिद्धप्रतीतेर्विजातीयसम्बन्धन क्वचित्सत्ताप्रकारकत्वेन उपादानासम्भवादित्यर्थः । न च तथा मान- सिद्धत्वमसिद्धमिति वाच्यम् ; द्रव्यगुणकर्मसु साक्षात् सम्बन्धः, अन्यत्र परम्परासम्बन्धः भातीति हि वैशेषिकादिशास्त्रकल्पना । न तु लोका- 1 त्वदिष्टं. 2 तत्त्वया,