पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेद) प्रत्यक्षबाधोद्धारः 239 सांसर्गिकविषयतानिरूपकतावच्छेदकत्वम् । वस्तुतस्तु प्रतियोगित्वा- नुयोगित्वयेोरेव विषयतात्वप्रकारतात्वाविशेष्यतात्वानि कल्प्यन्ते । अन्यथा उक्तरीत्या घटत्वावच्छिन्न प्रतियोगित्वनिरूपितसंसर्गताकत्वस्य घटत्वा- वच्छिन्नप्रकारताकत्वरूपत्वे गौरवात् । तथाच प्रतियोगित्वानुयोगित्वयोः अतिरिक्तत्वं स्वीकृत्यापि विषयताया अतिरिक्तत्वस्वीकरणस्य अयुक्तत्वात् पक्षधरपर्यन्तप्राचीनतार्किकसम्मतं भासमान वैशिष्ट्यप्रतियोगित्वानुयेगित्वे एव प्रकारत्वविशेष्यत्वे इति मतमेव युक्तमित्यवहिततम चित्तश्चिन्त्यमेतत्सु- धीभिः ।। ननु तथापि प्रमेयत्वसामान्यलक्षणाजन्यज्ञानस्य प्रमेयमुख्य विशे- प्यकत्वेन घटत्वादिरूपप्रमेयप्रतियोगितानिरूपितसमवायसांसर्गिकविषय- ताकत्वाभावात् कथमुक्तसंशयविरोधित्वमाचार्यैरुक्तम् ? न चाक्तज्ञानो- त्तरभाविज्ञानस्य तथात्वभभिप्रेतमिति वाच्यम्; घटस्यापि प्रमेयमिति ज्ञाने भासमान वैशिष्ट्यप्रतियोगित्वा दित्युक्तिविरोधादिति चेन्न; प्रमेय - मिति ज्ञानात् ज्ञानान्तरे भासमानं यद्वैशिष्टयं तत्प्रतियोगित्वादित्यर्थ- सम्भवात् । अपिच मुख्यविशेष्यतानन्त'र्भावेन सामान्यप्रत्यासत्तिकार्य- त्वस्य नव्यमते स्वीकारात्, विशिष्ट वैशिष्ट्यबुद्धयादौ विशेषणतावच्छे- दकप्रकारकज्ञानत्वादिना हेतुत्वस्याप्यस्वीकारात्, प्रमेयमिति सामान्यज्ञा- नाज्जायमाने प्रमेयवानयमित्याकारकज्ञाने घटत्वस्य भासमानवैशिष्ट्यप्रति- योगित्वादुक्तसंशयानुपपत्तिरित्यभिप्रायः । न चोक्तसंशये प्रमेयवानि- त्याकारा' प्रमेयतावच्छिन्न प्रतियोगितात्वावच्छिन्ननिरूपकताकसमवाय- संसर्गताकधीः न विरोधिनी, किन्तु अयं घट इत्याकारा शुद्धघटत्व- प्रतियोगितात्वावच्छिन्ननिरूपकता कसमवायसंसर्गताकधीरिति वाच्यम्; सकलघटवृत्तित्वादिरूपघटत्वत्व' विशिष्टवानयमित्यादिज्ञानस्यापि तद्विरो- धत्वानुभवात् तव्यक्तिप्रतियोगिताकाभावबुद्धौ लाघवेन तव्यक्ति प्रकारक - । विशेष्यताविशेषणानन्त, 2 त्याकारात्. 3 घटत्वत्वं त्वन्मते. 4 प्रकारताक. -