पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

236 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः , 1 त्वात् तादृशबुद्धेस्त्वन्मते संयोगसंसर्गताया घटप्रकारतानिरूपितप्र- तियोगित्वसंसर्गतानिरूपितत्वात् । ननु घटादिस्वरूपं यदि संयो- गादिप्रतियोगित्वानुयोगित्वं, तदा स्वाश्रयसंयोगादिसम्बन्धेन घटत्व- प्रकारकज्ञानस्यापि घटप्रकारकत्वापत्तिः; यदि तदतिरिक्तं, तथापि स्वाश्रयप्रतियोगि कसंयोगत्वादिना सम्बन्धतायां तत्प्रकारकज्ञानस्य स्वसंयोगीयप्रतियोगितासम्बन्धेन पटवान् घट इत्यादिज्ञानस्य च घट- प्रकारकत्वापत्तिः, द्रव्यवत् घटवादिति ज्ञानयोरवैलक्षण्यापत्तिश्च, अतिरिक्त प्रतियोगित्वानुयोगित्वयोः तत्सांसर्गिकविषयत्वयोश्च कल्पनामपेक्ष्य अतिरिक्तप्रकारत्व विशेष्यत्वयोरेव कल्पने लाघवं चेति चेन्न; घटत्वाव- च्छिन्न प्रतियोगित्वपर्याप्तसांसर्गिकविषयता हि घटत्वावच्छिन्नप्रकारता; तथाच स्वाश्रयप्रतियोगिक संसर्गत्व स्थले स्वाश्रयतावच्छिन्नप्रतियोगि त्वस्य भानेऽपि घटत्वावच्छिन्न प्रतियोगित्वस्य अभानात् न घटत्वा- वच्छिन्नप्रकारताव्यवहारः | स्वाश्रयत्वरूपेण स्वाश्रयस्य तु प्रकारत्व- मिष्यत एव ; तवापि मते तेन रूपेण तत्प्रमात्वनिर्वाहार्थं तथा वाच्यत्वात् । अन्यथा स्वाश्रय रूपसंयोगेन गुणत्वादिप्रकारकज्ञानस्य रूपभ्रमत्वं न स्यात् । स्वसंयोगीयप्रतियोगितासम्बन्धेन पटवान् घट इति ज्ञानस्यापि संसर्गता न घटत्वावच्छिन्न प्रतियोगित्वे पर्याप्ता | तत्पर्याप्तत्वं च घटत्वावच्छिन्नत्व'संसर्गतानिरूपितत्वे सति प्रतियोगि- त्वनिष्ठत्वं, घटत्वावच्छिन्नत्वप्रतियोगितारूपत्रितय' पर्याप्त कविषयतारूपत्वं बा । न च घटत्वावच्छिन्न प्रतियोगिताकसंयोगेन पट प्रकारकज्ञान- स्यापि घटत्वावच्छिन्नप्रकारताकत्वेन व्यवहारापत्तिरिति वाच्यम्; इष्टत्वात् । शुद्धसंयोगेन घटत्वावच्छिन्नप्रकारताकत्वेन त्वदङ्गीकृतज्ञान- स्यैव मया घटत्वावच्छिन्न प्रतियोगिताक संयोग संसर्गकत्व स्वीकारात्, 1 घटप्रकारतानिरूपित्वात्. 2 योगिक संयोगसंसर्गत्व. 5 प्रतियोगितादिषु विशेषणविशेष्यभावापनेषु त्रितय. 4 वच्छिन्न. 3 पटवानिति. 6 घट