पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रत्यक्षबाधा द्धारः प्रमृष्टतत्ताकस्मृतिसम्भवात् । नन्वनुमितेः विशेषणज्ञानजन्यत्वेन सामान्यप्रत्यासत्तिसिद्धिः, न चानुमानान्तरराविशेषणज्ञानमनव- स्थानादिति चेन्न; विशेषणतावच्छेद कप्रकारकज्ञानादेव साध्य- विशेषण कपक्षविशेष्यकानुमितिसम्भवात् । एतेन 'सुरभि चन्द- नम्' इत्यादि विशिष्टज्ञानाय कल्पिता ज्ञानलक्षणा प्रत्यास- त्तिरपि निरस्ता; चन्दनत्वेन सुरभित्वानुमानोपपत्तेः । अन्यथा साध्यविशिष्टपक्षप्रत्यक्षोपपत्तेरनुमानमात्रोच्छेदप्रसङ्गात् । न चा- भावसाध्य केवलव्य तिरेकिणि साध्यप्रसिद्धेरनङ्गत्वात् क्लप्तायाः अनुमितिसामग्रथाः प्रत्यक्षसामग्रीतो बलवत्वमिति वाच्यम्; अर्थापत्तिवादिभिरस्माभिस्तदनभ्युपगमात् । 'पर्व- तवृत्तिधूमो वह्निव्यापकः' इति परामर्शात् साध्यविशेष्यक- तत्र - 227 तत्तद्देशकाल सम्बन्धित्वरूपतत्ताविशिष्टधूमत्वादिना अनुभूतस्यापि केवल- घूमत्यादिना स्मृतिरित्याह- - प्रभृष्टतत्ताकेति । तत्ताशे संस्कारानुद्बोधे- नाविषयीभूततसाकेत्यर्थः । ज्ञानादेवेति । विशेषणज्ञानं यदि समवायेन हेतुः तदा प्रत्यक्ष एव, अन्यथा स्मृतौ व्यभिचारादिति भावः । पक्ष- प्रत्यक्षेति । परमाणुः रूपवा नित्य धनुमितेरपि परमते मानसप्रत्यक्षत्वो- पपत्तिः । न चानुमिनोमीत्यनुव्यवसाये नानुमितित्वजातिसिद्ध्या तद्विशि- ष्टस्य परामर्शजन्यत्वमावश्यकम्, अन्यथा व्याप्तिपक्षधर्मतानिश्चयस्यानु- पयुक्तत्वापत्तेरिति वाच्यम्; अनुमितिसामग्रीत्वेन पराभिमतव्याप्तिज्ञाना- युत्तरप्रत्यक्षस्यैवोक्तानुव्यवसायविषयत्वात्, व्याप्तिपक्षधर्मतानिश्चयस्य तादृ- शप्रत्यक्षप्रमात्वग्रहोपयुक्तत्वसम्भवात् बह्वयादिप्रमात्वस्य व्यापकत्वपक्षे वढ्यादिव्याप्यवद्विशेष्यज्ञानस्य विशेष्यदर्शनत्वेन उपयोगादिति भावः । अर्थापत्तीति । वस्तुतस्तु तत्रानुमितिस्वीकारेपि व्यतिरेकव्याप्तिज्ञान- घटितायाः सामग्रया एवालौकिक प्रत्यक्षसामग्रीतो बलवत्त्वं सिद्ध्यति, 15*