पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

222 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथम: ● तस्यापि विषयबाघप्रयोज्यत्वादिति हि वक्ष्यते । नन्वभाव- ज्ञानस्य प्रतियोगिज्ञानजन्यत्वात् प्रौढप्रकाशयावत्तेजोविरहरूपस्य तमसः प्रत्यक्षता न स्यात्, सामान्यप्रत्यासत्तिं विना प्रति- योग्यनुपस्थितेरिति चेन्न; असन्मते तमसो भावान्तरत्वात् । योत्तरं जायमाने संयोगेन रूपं नास्तीति ज्ञाने रूपे संयोगस्य विशेषणत्वासम्भवात् उक्तवैषम्यमिति वाच्यम्; एकत्र द्वयमिति रीत्या रूपत्वसंयोगोभयप्रकारज्ञानस्य संयोगेन रूपं नास्तीति निर्णया प्रतिबद्धत्वाच तयोः तदाऽपि भानसम्भवात् । एवं दूरस्थविषयक निर्विकल्पकप्रत्यक्ष सर्वलोकसम्मत भ्रमत्वव्यवहारो न स्यात् । अस्मन्मते तत्रानिर्वाच्यं जातं बाघितमतो बाघितविषयकत्वमेव भ्रमत्वमित्या- शयेनाह – वक्ष्यत इति । अस्मन्मते पूर्वोत्तरमीमांसकमते । भावान्तरत्वादिति । तदुक्तम्- - नाभावो ऽभाववैधर्म्यान्नारोपो बाघहानितः । द्रव्यादिषट्कवैधर्म्यात् ज्ञेयं मेयान्तरं तमः ।। . ः। इति । तमो नीलं चलतीत्यादिप्रतीत्या रूपादिमत्त्वात् घटादिष्विव तत्राबाधात् गन्धाद्यभावेन पृथिव्यादिनवद्रव्यगुणादिवैधयाच्च द्रव्या- न्तरमित्यर्थ: । किञ्च द्रव्यचाक्षुषे आलोकप्रतियोगिकः संयोगो न हेतुः, मणिप्रभादौ तदभावेऽपि चाक्षुषभावात् । नापि आलोक- प्रतियोगिकत्वोपलक्षितः संयोगो विजातीयत्वेन हेतुः, वच्छिन्नाद्यालोकसंयोगात् न चाक्षुषमतो विजातीयत्वेनेति । प्रभादौ वाय्वादिसंयोग एव तादृश इति वाच्यम् । आलोक- प्रभादौ वाय्वादेः संयोगो विभागादिरेव वा तादृश इत्यत्र विनि- गमकाभावात्, घटादावपि विभागादेर्हेतुत्वसम्भवेन सङ्कराद्यप्रसक्तेः तददोषत्वाच्च । अतो द्रव्यचाक्षुषे तादात्म्येन संसर्गविधया तमस्त्व- अणुदेशा - आलोक- 1 चाक्षुषाभावात्. 2 तद्दोषत्वाच.