पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रत्यक्षबाधोद्धारः प्रत्यक्षबाघोद्धारः. ननु 'सन् घट: ' इत्याद्यध्यक्षबाधितविषया दृश्यत्वादय इति चेन; चक्षुराद्यध्यक्षयोग्यमिथ्यात्वविरोधिसत्त्वानिरुक्तेः । तथाहि – न तावत् प्रमाविषयत्वं तद्योग्यत्वं, भ्रमाविषयत्वं वा तादृक्सत्त्वम् ; चक्षुराद्यगम्य भ्रमप्रमाघाटतत्वेन चक्षुराद्ययोग्य- त्वावक्ष्यमाणदूषणगणग्रासाञ्च | तथाहि - नाद्यः; असति प्रमा- णप्रवृत्तेः तद्विषयत्वात् प्राक् सत्त्वस्य वक्तव्यत्वेन तस्य तदन्य- त्वात्, सम्वनिरूपणं विना सदर्थविषयत्वरूपप्रमात्वस्य निरूपणे 205 ज्ञानो- दृश्यस्य परोक्षत्वापरोक्षत्वान्तरत्व बहिष्वादिना यथानुभवं साक्षिणि कल्पनासम्भवादस्थिरज्ञानानामर्थानां च कल्पने गौरवात् त्पत्ति कालत्वेन अभ्युपगतकाले अर्थानामेवोत्पत्तिस्वीकारे लाघवात्, दृष्टिसृष्टिपक्षस्यादरणीयत्वात् 'अचिन्त्यमव्यवहार्यम्' इत्यादिश्रुत्या अव्यवहार्यस्यापि ब्रह्मणः स्वत एव सिद्धेरुक्तत्वात् । एवमित्यादि युक्तम्; उक्तार्हत्वस्य स्वोपहित एव ब्रह्मणि सत्त्वात् शुद्धे सत्त्वेऽप्यप्रयोजकत्वस्योक्तत्वात्, अस्मन्मते मिथ्यात्वस्य उक्तार्हत्व- घटितत्वस्योक्तत्वात्त्वन्मतसिद्धस्य सर्वदेशक / लवृत्त्यत्यन्ताभावप्रतियोगि- त्वस्यापि मिथ्यात्वस्य अत्यन्तासति ब्रह्मणि च सत्त्वे मानाभावस्यो- तत्वेन शून्यवादे अस्मत्स्वीकारोक्ते रुन्मत्तप्रलापत्वान्न हि दृश्यमात्र- मिथ्यात्वेन शून्यवादः, किन्तु सर्वासत्यत्वेन ॥ सारस्वतैस्तर्करनैश्चन्द्रिकाचन्द्रभूषणैः । दुरन्तध्वान्तखण्डानामखण्ड्याभासतुल्यता ॥ इति आभाससाम्यभङ्गः 1 अज्ञानोत्पत्ति. 2 अस्मन्मतस्वीकारोफे. →