पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

202 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः रजतमस्य स्वरूपमित्युक्तिमात्रेण इदंरजतयारैक्यमप्यपलप्येत । विस्त रेण चैतद वाच्यम् । यद्व्यतिरेकेत्यादि युक्तं, विशेषणविशेष्ययो- रेकैकाभावस्यैव विशिष्टधर्मावच्छिन्नप्रतियोगिताकत्वमिन्यादेरुक्तत्वात् । ईश्वरेत्यादिकं तु शोभते; मीमांसकादिकं प्रतीश्वरानुमानस्य प्रवृत्ततया तेन श्रुत्येश्वरसिद्धयस्वीकारात् । अन्यथा सिद्धसाधनप्रसक्तचैवानुमा- नवार्तालोपे उपाध्यन्वेषणा नौचित्यात् । व्यावहारिकेत्यादिकं तु न युक्तम् ; शुक्तिरूप्यादिज्ञापके दोषोपे व्यावहारिकस्य यद्वाघकं ब्रह्मज्ञानं तद्बाध्यत्वस्य सत्त्वात् व्यावहारिक विषयकबाघाबाध्यदोषो- क्तावपि व्यावहारिकदोषमात्रस्य तत्त्वेन शुक्तिरूप्यादाविव वियदादौ क्षणिकत्वादिज्ञानविषयत्वमादाय ब्रह्माणि चोक्तोपाधेस्सत्त्वेन साध्यस- मव्याप्तयभावात्, स्वं प्रतीत्यस्यापि बाधविशेषणत्वे ततएव ब्रह्म- निष्ठक्षणिकत्वे तद्घटितोक्तोपाधेर सत्त्वात् साध्याव्यापकत्वस्य आवश्य- कत्वात्तद्वारकस्य व्यावहारिकविषय केत्यस्य व्यर्थत्वात् प्रातीतिकदोष- ज्ञाप्यप्रातीति कविशेषे साध्याव्यापकत्वात् । श्रुतिजन्येत्याद्यपि न युक्तम् ; नेह नानास्तीत्यादिश्रुतिजन्यप्रमाविषयत्वस्य दृश्य मात्रे सत्त्वस्योक्तत्वात् । निषेध्यत्वेन विषयत्वान्यविषयत्वोक्तावपि “इदगूँ सर्वमसृजत, सत्यं चानृतं च सत्यमभवत्" इत्यादिश्रुत्या मानान्तरनैरपेक्ष्येण ब्रह्मो- पादानकत्वादिना कार्यमात्रप्रमापनात् कार्यमात्रनिष्ठकार्यतायाः व्यव- हारकालाबाध्यत्वात् । अन्यथा घटादेरपि तादृशप्रमां प्रत्यविषयत्वात्, 'पृथिवी ब्रह्मेत्युपासीत' इत्यादिश्रुतिजन्यज्ञानस्य मानान्तरज्ञातपृथि- व्याघंशे प्रमात्वाभावात् । किञ्चिदंशे प्रमात्वविवक्षायां प्रातीतिक- पृथिव्यादेरपि तादृशविषयत्वसम्भवान्मिथ्या नोपास्य मिति सङ्कर्षोक्ते- " 1 उपाध्यत्वेषणा. 2 तत एव ब्रह्मनिष्ठक्षणिकत्वस्यापि वारणाड्यावहारिकविषय- केल्यस्य व्यर्थत्वाच्च । प्रातीतिकदोषज्ञाप्य्प्राततिकविशेषे ब्रह्मनिष्टक्षणिकत्वे. इति कोशान्तरे पाठः. 3 किश्चिदंशेन. 4 तनोपास्य.