पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः । अंशित्वविचारः 191 , त्युक्तिस्तु शोभते, सम्बन्धस्यैवाश्रयत्वरूपत्वात् । अभावस्य त्वधिकरण - मेव सम्बन्ध इति द्वितीयाभावाश्रयत्वस्य ब्रह्मरूपत्वात् अभावस्येत्यादि न युक्तम् ; ब्रह्मणो विशिष्टरूपेण वाच्यत्वेपि तात्पर्यानुरोघेन लक्षणाङ्गी- कारात् । अखण्डार्थेन महावाक्येनाभावासिद्धावपि 'एकमेवाद्वितीयम्' इत्याद्यवान्तरवाक्येन तत्सिद्धेः तस्य च मण्डनमाते अखण्डार्थत्वाभा वेऽप्यक्षतेः । न चावान्तरवाक्ये शुद्धाबोघे महावाक्ये तद्भानं न स्या- दिति वाच्यम्; ज्ञानानन्दादिपदेभ्योऽवान्तरवाक्यजन्यबोधे शुद्धरूपेणापि भानात्समानाधिकृतनानानामघटितस्यैकमेवाद्वितीयमित्यादेरेव सिद्धान्तेऽ- खण्डार्थत्वात्, नेह नानेत्यादिश्रुतेः मिथ्यात्वानुमितेश्चाभावसिद्धिसम्भ- वाच्च । न चैवं मिथ्यात्वघटक वस्तुमात्रस्यैव तात्त्विकतापत्तिः, स्वाधि- कसत्ताकस्वसमानाधिकरणाभावप्रतियोगित्वस्य मण्डनमतेऽनुमेयतया तद - न्यथानुपपत्त्याऽभावस्य तात्त्विकतासिद्धावपि तदन्यत्वस्य' तत्सिद्व्यसम्भ- वात् । अतएवाद्वितीयपदे उक्तसङ्कोचोऽपि प्रामाणिकः । अन्यथा तत्राभावस्यापि निषेधे स्वप्रतियोग्याधिकसत्तानुपपत्तेः । किंच तत्त्वज्ञानो- द्देशेन प्रवृत्त्यन्यथानुपपत्त्या तत्त्वज्ञान कार्योऽविद्याध्वंसो वाच्यः । तस्य च मिथ्यात्वे तत्त्वज्ञानबाध्यत्वान्न तत्कार्यत्वमिति स तात्त्विकः । एवंच मिथ्यात्वघटकात्यन्ताभावोऽ विद्याध्वंसश्च तात्त्विक, तदन्यत् दृश्यजातं मण्डनमतेऽपि मिथ्यैव, तात्त्विकत्वग्राहकयुक्तभावादिति भावस्येत्यादि निरस्तं बोध्यम् । अभावत्वं दुर्वचत्वान्मिथ्यव सप्रतियो- गिकत्ववत् उक्ताभावव्यावृत्तदृश्यत्वं ध्वंसप्रतियोगित्वादिकमेव वा मण्डनमते मिथ्यात्वे हेतुरिति न व्यभिचारः || सारस्वतैस्त र्करत्नैश्चान्द्रकाचन्द्रभूषणैः । दुरन्तध्वान्तखण्डा नामखण्डि सांशताहुतिः ॥ इत्याशत्वविचारः. 1 तदन्यस्य. 2 भावे योऽविद्या. ——