पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अंशित्वविचारः 187 रूपेण प्रमिततादात्म्यादित्यर्थः । तच्च कल्पितं ब्रह्मण्यपीति धीकाल इत्युक्तम् । स्वषीकाल इत्यर्थः । ब्रह्मधीकाले च ब्रह्मणि न तत्, ब्रह्मधियः स्वेतरकल्पितध्वंसरूपत्वात् । तथाच ब्रह्मावृत्तिस्तद्धीविषयत्वा- वच्छिन्न प्रतियोगिताको वा भेदो हेतुरिति उक्तजडत्वहेतौ पर्यवसानम् । भारूपं स्वप्रकाशरूपं, तत्र सम्यक् लमत्वात् यावत्स्वरूपं सम्बद्धत्वात् । ब्रह्मणः स्वस्मिन्नसम्बन्धस्तु न तथा, कल्पितत्वात् ब्रह्मान्यनिष्ठभास- म्बन्धादिति यावादति द्वितीयस्याप्यस्वप्रकाशत्वायुक्तहेतावेव पर्यव सानम् । सवितरि व्यभिचारोक्तिस्तु शोभते, तस्यापि पक्षत्वात्, दृष्टान्तस्तु शुक्तिरूप्यादि वा चित्रनिम्नोन्नतादि वेति' न विशेषः । यत्तु – “ कथंचिद्भदो यदि कार्यकारणत्वानुपपत्तचोच्यते' तर्हि कथं- चित्त्वं मिथ्यात्वमेव । तच्चाबाध्यात्यन्ताभावप्रतियोगित्वमित्यभेदस्सत्य' इत्यागतमेव । एतन्निष्ठाभावप्रतियोगित्वेप्येतत्समवेतत्वादंशित्वस्य साध्ये- ना विरोधादित्यादि कथमध्ययुक्तम् तदत्यन्ताभाववति तत्प्रागभावस्य विरोधात् । अन्यथा वाय्वादौ रूपादिप्रागभावापत्तेः । केवलान्वयीत्याद्यपि न युक्तम्, एतत्समवेतत्वस्य यावत्स्वरूप मेतत्सम्बन्धवत्त्वरूपत्वात्, " तस्य च केवलान्वयिन्यपि सत्त्वात् । तत्तन्तुसंयोगिनि पटे व्यभिचारोऽपि युक्तः, तत्संयोगिनि तदत्यन्ताभावविरोधात् । समवायेनाभावस्य साध्ये निवेशे तु समवायानभ्युपगमपक्षे सिद्धसाधनमर्थान्तरं वा । इह तन्तुषु पट इति प्रत्यक्षं चन्द्रप्रादेशिकत्वप्रत्यक्षवदप्रमाणमित्यपि न ; दृष्टान्त- स्यापरीक्षितत्वत्, दान्तिकस्य फलपर्यन्तार्थक्रियापरीक्षितत्वात्तयोर्वेष- म्यात् । तत्र एतत्चन्तुनिष्ठेत्यायपि न युक्तम्, तथा सति हि पृथिवी इतरेभ्यो भिद्यते पृथिवीत्वादित्यादावपि यत् पृथिवीतरत्तत्र पृथिवीत्वाभाव इत्यादिव्याप्तिग्रहे पाकजरूपाभावादिरूपाधिः स्यात् पृथिवीत्वाभावव्याप. 4 5 .9 1 शुक्तिरूप्यादिवञ्चित्रनिम्नोन्नतादिवद्वेति. 3 मित्यतः भेदस्सत्य. 4 अंशस्य साध्येन. 5 वत् रूपत्वात्. 2 कारणत्वान्यथानुपपत्योच्यते.