पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] परिच्छिन्नत्वविचारः 177 व्याप्तेः । कालदृष्टान्तोप्ययुक्तः ; उपनयसन्निकर्षेणैव साक्षिणा वा कालभानात् । स्वभावतो योग्यस्येत्याद्यपि न युक्तम् आकाशस्येव ब्रह्मणोऽपि रूपाद्यभावेन स्वभावायोग्यत्वात् । ब्रह्म तु न द्रव्यमित्याद्यपि न युक्तम् ; अस्थूलादिश्रुात्या घटादिसाधारणस्थौल्यादेरेव निषेधेन परिमा- णमात्रानिषेधात्, " महान्तं विभुमात्मानं, अणोरणीयान् महतो मही- यान्, ज्यायानेभ्यः त्रिभ्यो लोकेभ्यः, सर्व समाप्नोषि, सर्वत्र प्रसिद्धोपदे- शात् ” इत्यादिश्रुतिस्मृतिसूत्रैः ब्रह्म परिमाणवत्, उपादानत्वादित्यादियु - क्तया च ब्रह्मणि परिमाणसिद्धेः, अद्रव्यस्य तस्याम्बरादिधारणानुपपत्तेः । धर्म्यन्यून सत्तेत्याद्यपि न युक्तं ; जगतः कल्पितत्वासिद्धौ द्रव्यत्वे ब्रह्मन्यू - नसत्ताकत्वासिद्धेः ” इति, तत्तुच्छम् ; गोत्वादिसामान्यं विनाऽप्युक्त- व्यवहारस्योपपादितत्वात्, सदानन्दयोः कल्पितभेदेन घटादिवृत्त्या घटाद्यवच्छिन्न सद्रूपस्यैव प्रकाशस्वीकारेण च दोषाभावस्योक्तत्वात्, ' आनन्दं ब्रह्मणो रूपम्, आनन्दं ब्रह्मणो विद्वान्' इत्यादिश्रुतिभिरुक्त- भेदस्यानुवादात् । किंच सदानन्दयोर्मास्तूक्तभेदः, तथापि न क्षतिः ; सद्रूपस्य घटादिविशेषणतया व्यवहारं प्रति सद्रूपमूलाज्ञानं न विरोधि, घटादिवृत्तिशून्य'काले घटादिव्यवहारस्य विरोधिपल्लवा ज्ञानसत्त्वेन तद्वि- शेषणतया सद्रूपभानासम्भवात् । पल्लवाज्ञानावृत्तं सद्रूपमित्युपर्यत इत्यस्मिन्नर्थे प्रकृतग्रन्थतात्पर्यात् । आनन्दरूपमपि विशेषणतया व्यव- ह्वियत एव - ‘ आस्त भाति प्रियं नाम रूपं चेत्यंशपञ्चकम्' इति व्यवद्दिय- माणस्य पञ्चांशत्वोक्तेः घटोस्तीत्यादिवत् घटः प्रेयानित्यादिप्रतीतेः । न च सद्रपस्य घटादिवृत्तिविषयत्वे मूलाज्ञाननिवृत्तिः स्यादिति वाच्यम्; आपात श्रौतज्ञानस्येव घटादिवृत्तेरपि तदनिवर्तकत्वात्, सामग्रीविशेषजन्य- ज्ञानस्यैव विजातीयत्वेन तन्निवर्तकत्वस्याक्तत्वात् । न च विशेषणतया 1 र्मास्तु भेदः. 2 घटादिशून्य. 3 पल्लवाज्ञानस्य सत्त्वे. नावतं.