पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

172 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः तथाच चक्षुरादिजन्यवृत्त्या तदावरणभङ्गे सति ' सन् घटः ' इत्यत्र ब्रह्मणः स्फुरणे बाधकाभावात् । न च रूपादिहीनतया चाक्षुषत्वाद्यनुपपत्तिः बाधिकेति वाच्यम्; प्रतिनियतेन्द्रिय- ग्राह्येष्वेव रूपाद्यपेक्षानियमात् । सर्वेन्द्रियग्राह्यं तु सद्रूपं ब्रह्म । नातो रूपादिहीनत्वेऽपि चाक्षुषत्वाद्यनुपपत्तिः, सत्तायाः परैरपि सर्वेन्द्रियग्राह्यत्वाभ्युपगमाच्च । तदुक्तं वार्तिककृभिः- अतोऽनुभव एवैको विषयोऽज्ञातलक्षणः । अक्षादीनां स्वतस्सिद्धो यत्र तेषां प्रमाणता || द्यवच्छिन्नसद्रूपानावरणात् तस्य प्रकाश इति भावः । घटाद्यवच्छिन्ने- त्यादेरर्थस्तु पूर्ववत् । सर्वेन्द्रियग्राह्यमिति । धीमात्रविषयत्वाभ्युप- गमादिति भावः । परैरिति । सत्ताजातेस्तार्किकादिभिः सर्वेन्द्रिय- ग्राह्यत्वाभ्युपगमात् ज्ञानविषयत्वरूपसत्तायाः मणिकारोक्तप्राभाकरमते धीमात्र विषयत्वाभ्युपगमादित्यर्थः । उक्तं हि मणौ – 'प्राभाकरास्तु मितिमात्रंशे सर्वं ज्ञानं प्रत्यक्षम्' इति । प्राचीनप्राभाकरमते तु वाचस्पत्याद्युक्ते मेयभानकाले मितिमात्रोर्न संशयविपर्यय वित्येवाभ्युप- गमः । सर्वेन्द्रियग्राह्यत्वसाधकस्य सर्वधाविषयत्वस्योपपदकमाह तदुक्तमिति । अनुभवः सद्रूपम् । तस्यैव विषयत्वे हेतुः – अज्ञात- लक्षण इति । सद्रूपभिन्नं तु विषयीभूतसद्रूपावच्छेदकम् न तु विषय इति भावः । स्वतस्सिद्धः अनारोपितः । अथवा अज्ञातो विषयोऽनुभव एव, जडे अज्ञातत्वाभावादित्यर्थः । तथाच सद्रूपा- न्यस्य विषयत्वेऽपि न क्षतिः । अक्षादीनां चक्षुरादिप्रयोज्यज्ञानानाम् । तेन भ्रमस्याप्यनुभवो विषय इति लभ्यते । उक्तविषयकत्वं विना- ज्ञानमात्रे प्रमात्वव्यवहारो न स्यात्, अज्ञाताबाधितविषयकत्वस्यैव प्रमात्वरूपत्वादित्याशयेनाह-यत्रेति । यद्विषयकत्वेनेत्यर्थः । प्रमाणता 2 ज्ञाने. 1 साधकत्वस्य.