पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

168 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः विवक्षितत्वात् पट: " इत्यानन्दबोधोक्तमपि साधु । विभक्तशब्देन स्वस- मानसत्ताकभेदप्रतियोगित्वरूपवस्तुपरिच्छेदस्य न ब्रह्मतुच्छयोर्व्याभिचारः । न च ‘खण्डो गौमुण्डो गौ: " इत्येवमादिस्वानुगतप्रतिभासे गोत्वादौ व्यक्तीनामकल्पितत्वात् व्यभिचार इति वाच्यम्; सत्सामान्यातिरिक्तगोत्वादिसामा- न्यानभ्युपगमात्, गोत्वाद्यभ्युपगमेऽपि गोत्वादिव्यञ्जकताव- च्छेदकसामान्यानभ्युपगमात्, व्यक्तिविशेषाणामेवाननुगतानां भासमानार्थकतया सद्रूपार्थकत्वपर्यवसानात् सत्त्व 'व्यापकस्वात्यन्ताभाव- कत्वं द्वितीयसाध्यं पर्यवस्यति । स्वानधिकरणकपालादिरूपसद्वृत्त्यत्य- न्ताभावप्रतियोगित्वमादाय पटादौ परेषामर्थान्तरवारणाय व्यापकत्वम् । भासमानत्वव्यापकतानिवेशे शून्यवादिनां सिद्धसाधनम् । अतः सत्व - व्यापकत्वमुक्तम् । अथवा द्वितीयसाध्यं ब्रह्मसिद्धयुक्तवक्ष्यमाणानुमान एव बोध्यम् । कल्पितत्वं च स्वाभाववतीति वक्ष्यमाणाचार्यवाक्यमपि तदभिप्रायम् । यथेत्यादिः, यद्यद्विभज्यते तत्स्वानुगतप्रतिभासे कल्पितं, यथा रज्जुसर्पादिकमित्युदाहरणे एवमित्यादे रुपनयनिगमनयोः तात्पर्यम् । आनन्दबोधोक्तमिति । प्रमाणमालायामित्यादिः । प्रथमसाध्याभि- प्रायेणाशङ्कय निराकरोति – न चेत्यादि । गोत्वाद्यनपेक्षतथा गोत्वा- दिकार्यप्रयोजकतायां दृष्टान्तमाह - गोत्वाद्यभ्युपगम इति । व्यक्ति- विशेषाणामिति । जात्तिवृत्तिलौकिकाविषयतया प्रत्यक्षं प्रति स्वविषय - समवेतत्वसम्बन्धेन प्रत्यक्षस्य कारणत्वेन स्वविषयव्यक्तीनां सम्बन्ध - विभया प्रत्यक्षोत्पत्तिप्रयोजकत्वरूपं व्यञ्जकत्वमिति भावः । अननु- गतानां गोत्वाद्यविशेषितानाम् । अथ सास्नाद्यवच्छिन्नसन्निकर्षादेः गोत्वादिव्यञ्जकत्वस्यावश्यकत्वेनोक्तव्यञ्जकत्वे मानाभावः, विशिष्य 1 स्व. 2 स्वविषये.