पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] जडत्वनिरुक्तिः 155 , उपपत्तेः । 'अस्ति ब्रह्म' इति च लकारो न ब्रह्मसत्तां प्रति ब्रह्मणः कर्तृत्वमाह, नित्यत्वेन तदसम्भवात् । किन्तु साधु- त्वार्थ इति द्रष्टव्यम् । ननु प्रमाभ्रमभिनं न ज्ञानम्, न चात्मस्वरूपं ज्ञानं प्रमा, तद्विषयस्याविद्यादे: तात्विकत्वापा- तात् । न च अप्रमा, दोषजन्यत्वापातादिति चेन्न; तार्कि- कसिद्धेश्वरज्ञानवत् घटादिनिर्विकल्पकवच्च स्वभावतः उभयवै- लक्षण्येनाप्युपपत्तेः । तत्रापि ईश्वरज्ञानस्य प्रमात्वे गुणजन्य- त्वस्य, भ्रमत्वे दोषजन्यत्वस्य चापत्तेः । निष्प्रकारके च निर्वि- कल्पके तद्वति तत्प्रकारकत्वस्य, तदभाववति तत्प्रकारकत्वस्य च अनुपपत्तेः । जन्यसविकल्पकत्वेन भ्रमप्रमान्यतरत्वनियमे अस्माकं त्यभावात् । विलक्षणवृत्तिद्वयोपरागेण च स्वभा- वतो भ्रमप्रमाविलक्षणस्याप्यत्मज्ञानस्य तदुभयरूपेण व्यवहारो- पपत्तेः । न च ज्ञानपदवाच्यभिन्नत्वविवक्षायां उपाधेरपि पूर्वं तु परमतेन तत्प्रत्यक्षत्वमुक्तमिति भावः । साधुत्वेति । मणि- कारादिमते जानातत्यादाविव कर्तृत्वानाभधानम् । वर्तमानकालभानं तु अखण्डार्थतात्पर्याभावे स्वीक्रियत इति भावः । विलक्षणवृत्तीति । प्रमाभ्रमरूपवृत्तीत्यर्थः । सुखाद्यवच्छिन्नचैतन्यस्यापि घटाद्या कारवृत्त्या तथात्वम् । सुखाद्यंशे च प्रमाभ्रमावलक्षणत्वामष्टं अज्ञाताविषयक- त्वात् स्मृतिवत् । आगन्तुकदोषाजन्यत्वादीश्वरज्ञानादिवदिति भावः । अथवा वृत्तेरेव मुख्यप्रमात्वादि, चैतन्ये तूपचारात्तव्यवहार इत्याह - विलक्षणवृत्तिद्वयोपरागेणेति । बाधकवृत्तिघटितं यत् बाधितविष - यक्रत्वं तदन्यविषयकत्वरूपं द्वयं तदुपरागेणेत्यर्थः । तथाचाबाधित - बाधितविषयकत्वाभ्यां चैतन्ये प्रमात्वभ्रमत्वोपचार इति भावः । वस्तु- तस्तु वृत्ताविव व्यावहारिकप्रमात्त्वस्य घटायवच्छिन्न चैतन्ये स्वीकारेऽपि न क्षतिः, तेन रूपेण गुणजन्यत्वस्य सत्त्वात् । अविद्यावच्छिन्ना -