पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] दृश्यत्वनिरुता. 147 वच्छेदकत्वे गौरवात् अपरोक्षत्वजात्याश्रयमानसविषयत्वस्य सुखादाव- पि सत्त्वेन तस्य ब्रह्मण्येवोक्त श्रुत्योक्त्यसम्भवात् अनावृतचिद्रूपत्वेन ब्रह्मणि तत्तादात्म्येन विषये तद्विषयकत्वेन वृत्तौ चापरोक्षत्वव्यव- हारसम्भवेन अपरोक्षत्वजातावेव मानाभावात् । न च वृत्तिगतो- क्तरूपस्येन्द्रियादिजन्यतावच्छेदकत्वे गौरवमिति वाच्यमू; चाक्षुष- त्वादिना जन्यतावश्यकत्वेन चाक्षुषरासनादिसाधारण्येन तदस्वीका- कारात् । स्वीकारे वेन्द्रियत्वापेक्षया लघुना संयोगत्वादिनेन्द्रियं प्रति- ज्ञानत्वादिना जन्यत्वसम्भवात् । परोक्षस्थलेऽपीन्द्रियसंयोगाद्यभावेऽपि न वह्नयादौ कस्यचित्संयोगवतः संयोगादिसम्भवाद व्यभिचारात् । अपिचेत्याद्यपि न युक्तम्- 22 स्वच्छेऽन्तःकरणे सति प्रसृमरे नेत्रादिमागते तत्तद्गापचया त्मना परिणते बिम्बीभवन्ती चितिः । एकाऽप्यर्थमनोविशेषकवशात् द्वैतं प्रपन्ना हर- त्यज्ञानं, प्रकटीकरोति विषयान् ज्ञातं मयेदं त्विति ॥ इत्यादिना सिद्धान्ते वृत्तौ प्रतिबिम्बितचिदङ्गीकारेऽपि सा स्वाश्रित- मेवाज्ञानं हरतीति नियमः, न तु स्वविषयावच्छिन्नाश्रितं स्ववि- षयाश्रितमेव वा हरतीति । आद्ये प्रतिबिम्बितचैतन्यविषयघटाद्य- वच्छिन्नचिदाश्रितस्य पल्लवाज्ञानस्य नाशसम्भवेऽपि मूलाज्ञाननाशा- सम्भवात् ब्रह्मणः प्रतिबिम्बितचिद्विषयत्वेऽपि मूलाज्ञानस्य तदव- च्छिन्नानाश्रितत्वात् । द्वितीये पल्लवाज्ञानस्याप्युक्तचिद्विषयघटाद्यना- श्रितत्वेन नाशासम्भवात् । किंच ब्रह्मज्ञानस्य जातिविशेषादिनैव अज्ञाननिवर्तकतावश्यकत्वस्योक्तत्वात् नाज्ञाननिवृत्त्यर्थं ब्रह्मणः फल- व्याप्यत्वोक्तिः युक्ता । वृत्त्यन्येत्यादिरोदनं तु सुखादिस्थले वृत्ति- कल्पनागौरवमोक्षस्वप्रकाशत्वावश्यकत्वादिना परिहृतमेव । न L प्रात्यतया. , 2 भेद.

  • 10