पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] दृश्यत्वनिरुक्तिः 145 रपरिहाराय यतनीयम् । सद्विविक्तत्वमात्रे तु साध्ये तुच्छे पश्चम- प्रकाराविद्यानिवृत्तौ च न व्यभिचारगन्धोऽपीति सर्वमवदातम् || इति दृश्यत्वनिरुक्तिः | MAGAMINTA ANNA त्मकम् । सर्वेष्वनुमानेषु साध्यस्यैव मिथ्यात्वलक्षणत्वाभिप्रायेण तुच्छ - व्यावर्तकं सत्त्वेन प्रतीत्यर्हत्वादिकं साध्ये दत्तम् । वस्तुतस्तु साध्ये तन देयम्, प्रयोजनाभावात् । अतो नोक्तव्यभिचार इति वस्तु- गतिमनुरुध्याह–सद्विविक्तत्वमात्रे साध्य इति । सतो विविक्तत्वं भेदो यत्र तन्मात्रे यत्साध्यं तस्मिन्नित्यर्थः । तदन्य सकलसाधा- रणेषूक्तसाध्येष्विति यावत् । यत्तु – “ब्रह्मनिष्ठस्यान्यानधीनापरोक्ष- त्वस्य ब्रह्मातिरिक्तत्वे अविद्याधीनतया अन्यानधीनत्वमसम्भवि, ब्रह्मस्वरू- पत्वे तु तस्य घटादिनिष्ठभेद प्रतियोगित्वेऽपि घटादिनिष्ठत्वात् घटादि- निष्ठभेदप्रतियोगितानवच्छेदकत्वेन घटादावसिद्धिः । उक्तापरोक्षप्रति- योगिकभेदोक्तौ तादृशजीवप्रतियोगिकभेदवत्त्वात् ब्रह्माण व्यभिचारः । घटादिनपरोक्ष इति घीकल्पितभेदमादाय ब्रह्मस्वरूपस्याप्यपरोक्षत्व- स्योक्तावच्छेदकत्वे पञ्चमप्रकाराविद्याध्वंसादौ व्यभिचारः । तद्वार- णायाज्ञानकालवृत्तित्वोक्तौ अविद्यानाशोत्तरजीवन्मुक्तभोगादावसिद्धिः । अविद्यालेशकालीनत्वोक्तौ घटादावसिद्धिः । क्रमिकसर्वमुक्तिपक्षे पञ्चमप्रकाराविद्यानाशादौ च व्यभिचारः, युगपत्सर्वमुक्तेः वामदेवा- दिमुक्तिबोधकागमविरोधेनाप्रामाणिकत्वात् । किंचापरोक्षत्वं जाति- विशेषो वा तदाश्रयज्ञानविषयत्वं वा, तृतीयप्रकाराभावात् । उभ- यथाऽप्यन्यानधीनापरोक्षताकमिन्नत्वात् ब्रह्माण व्यभिचारः । न हि ब्रह्म इन्द्रियजन्यमनोवृत्तिनिष्ठोक्तिजात्याश्रयः । न चोक्तवृत्तिविषयः । द्वितीयपक्षे अन्यानधीनापरोक्षत्वाप्रसिद्धया घटादावसिद्धिः । अपि- , 1 सदन्य. 10. A.S.V.