पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] दृश्यत्वनिरुक्तिः 121 फलंव्याप्यत्वं वा, साधारणं वा, कदाचित् कथंचित् विषयत्वं वा, स्वव्यवहारे स्वातिरिक्तसंविदन्तरापेक्षानियतिर्वा, अस्व- यावच्छिन्नो योऽसत्त्वापादका ज्ञानाभावः तत्त्वेन संस्कारादिहेतुत्वे गौरवात् । प्रमाभ्रमान्यतरत्वं वा प्रमात्वभ्रमत्वे बाघोद्धारे वक्ष्यमाणे सखण्डे अखण्डे वा । असिद्धिवारकमपि सार्थकम् । मणिकारादिभिरीश्वर- वादादौ तथोक्तत्वात् । अन्यतरत्वमन्यतमत्वं च स्वरूपतोऽवच्छेदकं वा, प्रमाभ्रमावित्या कारकतद्धाविशेष्यत्वमन्यतरत्वं प्रमाव्याप्यत्वभ्रमव्या- प्यत्वे इत्याकारकतद्धीविशेष्यत्वं अन्यतमत्वमिति वा । तेन हेतुताव- च्छेदके धर्मे सम्बन्धे च व्याप्तिग्राहकतया दृष्टान्तवृत्तितावच्छेदकस्य भ्रमत्वस्य भ्रमवृत्तिव्याप्यत्वस्य चावश्यकत्वेपीतरवैयर्थ्यमिति परास्तम् । फलव्याप्यत्वमिति । फलं वृत्तिप्रतिबिम्बितचैतन्यं भग्नावरणक- चैतन्यं वा तत्तादात्म्यं तादात्म्येन तद्वा हेतुः साधारणं वृत्तिफलान्य- तरव्याप्यत्वं, वैयर्थ्यपरिहारः पूर्ववत् | कदाचिदिति । कालावच्छिन्न- वृत्तिकत्वोक्तिः दैशिकसम्बन्धेन हेतुतालाभाय । कालिकेन हेतुत्वे हि अविद्याद्यनादिषु भागासिद्धिः स्यात् । कथंचिदित्यावृतानावृत - साधारणं चित्तादात्म्यत्वं हेतुतावच्छेदकमित्यर्थः । यत्तु 'बाये- न्द्रियद्वारा निस्सृतोऽन्तःकरणपरिणामो वृतिः' इति परेण स्वग्रन्थे वृत्तिपदं व्याख्यातम् तन्न शोभतेतराम् । निस्सृतान्तःकरणपरि- णामस्य हेतुत्वे नित्यातीन्द्रियेषु भागासिद्धेः, योगिनोऽन्तःकरण- वृत्तेरपि तेषु निस्सरणे मानाभावात्, निस्सृतत्वस्य जीवनकाला, वच्छेदेन बाह्येन्द्रियविभक्तत्वरूपत्वा सम्भवात् त्वगिन्द्रिय संसृष्टत्वस्य वृतिमात्रे सत्त्वेन बाह्येन्द्रियसंसृष्टत्वरूपस्याव्यावर्तकत्वात् व्यर्थत्वाच्च- ब्रह्माण व्यभिचारोक्त्ययोगाच्च । यदपि परेण कदाचिदित्यादिकं विवृतं अतीतादिकमपि कदाचित्स्वाकारवृत्तिप्रतिफलितचिद्विषयो नित्याती- न्द्रियमपि कथंचित् ज्ञातत्वेन वा साक्षिविषय इति तदपि तुच्छम्; , 9 → -