पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

118 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः ष्टम्; तर्हि शून्यतैब परमनिर्वाणमिति चेन्न; सा हि यद्यसिद्धा, तत्कथं तदबशेषं विश्वम् ? परतश्चेत् सिद्धा, परोऽभ्युपगन्तव्यः । स च परो यदि संवृतिरेव, विश्वशून्यतयोर्न कश्चिद्विशेषः । कथं तदप्य- बशिष्येत? असंवृतिरूपश्चेत् परः परत एव सिद्धा अनवस्था स्वयमसिद्धश्चेत् कथं शून्यत्वमपि साधयेत् ? स्वतसिद्धश्चेदायातोऽसि मार्गेण । तथाहि — खतस्सिद्धतया तदनुभवरूपशून्यत्वादेव न • तस्य कालोऽवच्छेदक इति नित्यम् । अतएव न देशोऽवच्छे- दक इति व्यापकम् । अतएव तत् निर्धर्मकमिति विचारास्पृ- तस्य धर्मधर्मिभावमुपादाय प्रवृत्तेः । अतएव च तस्य विशेषाभाव इत्यद्वैतं प्रपञ्चस्यापारमार्थिकत्वादेव निष्प्रतियोगि कमिति विधिरूपम् । अविचारितप्रपञ्चाक्षेपातु शून्यमिति व्यव- हारः । तथापि प्रपञ्चशून्यस्यानुभवमात्रस्य प्रपञ्चेन कस्सम्बन्धः ? न च नायं प्रकाशत इति चेत् ; वस्तुतो न कश्चित् । संवृत्या गगनगन्धर्वनगरयोराधाराधेयभाव इव विषयविषयिभाव । स च यथा नैयायिकैः समर्थयिष्यते तथैव वेद्यनिष्ठस्त्वसावस्मिन् दर्शन इति विशेषः । अविद्यैव हि तथातथा विवर्तते यथानुभवीयतया व्यवद्दियते । तत्तन्मायोपनीतोपाधिभेदाच्चानुभूतिरपि भिन्नेव व्यवहार. पथमवतरति गगनमिव स्वमदृष्टघटकटाहकोटरकुटीकोटिभिः । तदास्तां तावत् किमार्द्रकवणिजो वहित्रचिन्तयेति । तस्मादनुभवव्यव- स्थितावनात्माऽपि स्फुरतीत्यवर्जनीयमिति प्रविश वा अनिर्वचनीय- ख्यातिकुक्षि तिष्ठ वा मतिकर्दममपहाय न्यायानुसारेण नीला- दीनां पारमार्थिकत्वे” इत्याद्युक्तम् । संवृतिरिति । विकल्प इत्यर्थः । शून्यत्वात् – असंगत्वात् । तस्य - विचारस्य । निष्प्रतियोगिकम्- पचप्रतियोगिकत्वस्य मिथ्यात्वेन तद्रहितम् । विधिरूपं – कल्पितेन 1तदावेशेषं. 2 सिद्धोवनवस्था, 3 भावरूप. ·