पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] मिथ्यात्वमिथ्यात्वनिरूपणम् तावच्छेदकमेकमेव दृश्यत्वादि । यथा गोत्वाश्वत्वयोः एकस्मिन् गजे निषेधे गजत्वात्यन्ताभावव्याप्यत्वं निषे- ध्यतावच्छेदकमुभयोस्तुल्यमिति नैकतरनिषेधे अन्यतरसस्त्वं तद्वत् | यथाच सत्यत्वमिथ्यात्वयोः न परस्परविरहरूपत्वं नवा परस्परविरहव्यापकत्वं तथोपपादितमधस्तात् । पर 111 रूपविरोधात् । तथाच गोत्वाश्वत्वयोः समानाधिकरणप्रतीतिकयोः अतथात्वात्समसत्ताकत्वेऽपि सत्यत्वमिथ्यात्वयोः तथात्वान्न समसत्ते- त्यत आह – यथाचेति । तथेत्यादि । स प्रकार सत्त्वासत्त्वे अधिकृत्योपपादित इत्यर्थः । तथाच यथा सत्त्वासत्त्वयोः न परस्पराभावत्वं प्रपञ्चे तयोः प्रत्येकासत्त्वेपि प्रत्येकाभावसत्त्वात् तथा सत्यत्वमिथ्यात्वयोरपि न तत्त्वम्, तुच्छे तयोः प्रत्येकासत्त्वेपि प्रत्येकाभावसत्त्वादिति भावः । ननु तथाऽपि परस्परविरहव्या- प्यत्वात्तयोर्व्यावहारिकयोः न सामानाधिकरण्यं गोत्वाश्वत्वयोरिव, तत्राह – परस्परविरहरूपत्व इति । उक्तविरहस्य रूपं रूपणं यस्मादिति व्युत्पत्त्या उक्तविरहव्याप्यत्वे इत्यर्थः । अथवोक्तविरहेण रूपं रूपणं यस्येति व्युत्पत्तेरपि सम्भवात् । रूपमभिन्नं व्याप्यं व्यापकं च । ननु यत्र तात्त्विकसत्त्वं तत्र न मिथ्यात्वमित्या- त्मनि दृष्टमिति भिन्नसत्ताकयोरपि विरोध: । किञ्च प्रपञ्चे सत्यत्वं मिथ्यात्वविषमसत्ताकमपि तात्त्विकं वाच्यम् । अन्यथा चानृतं च सत्यमभवत्' इत्यादिश्रुतौ सत्यब्रह्मणः प्रातीतिकसत्य- त्वाश्रयाकाशादिसकलप्रपञ्चे कारणत्वोक्तेरनृतपदं बिनापि सम्भवात्त- द्वैयर्थ्यापत्तेः । शुक्तिरूप्यादिव्यावृत्तसत्यत्वस्य सत्यपदेन ग्रहणे तु शुक्तिरूप्यादिग्राहकमनृतपदं सार्थकमतो नाद्वैतहानेरुद्धारस्तत्राह- " सत्यं