पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां विरहानुपपत्तेः । शशविषाणादाववस्थितिसामान्यविरहेऽपि ज्ञानप्रयुक्तत्वाभावाभातिव्याप्तिः । शुक्तिरजतादेश्चापरोक्षप्रती- त्यन्यथानुपपत्त्या प्रतिभासकाले अवस्थित्यतीकाराम बाधक- ज्ञानं विना तद्विरह इति नं साध्यविकलता । अतएवोक्तं ध्वसत्वं स्वपरसाधारणसकलदृश्यप्रतियोगितानिरूपकमिति ध्वंसत्वान्त- रास्वकिारादनवस्था नाशङ्कया, दृश्यप्रतियोगितात्वेन निरूप्यत्वात् नात्माश्रयः । यद्यपि परमतेऽप्युत्तरषीप्रयुक्तो ध्वंस: पूर्वज्ञानात्मक- सामान्यस्यैवेति सिद्धसाधनादितादवस्थ्यं, विषयतासम्बन्धेन प्रयोजकत्वो- क्तावपि परामर्शप्रयुक्तानुमित्यादेः प्रागभावे बाधधप्रियुक्तानादिसंसर्गा- भावस्य प्रतियोगिनिविष्टज्ञानादौ च तथा । तथापि ज्ञानप्रयुक्ततावच्छेदकं ज्ञानप्रयुक्तं वा अज्ञानवृत्तिप्रतियोगित्वं लक्षणं निर्दोषम् । अज्ञानध्वंस- क्षण एव तत्कार्यस्य जीवेशभेदादेश्च ध्वंस एक इत्येव तदीया तेषु प्रतियोगितेति नाज्ञानभिन्नाव्याप्तिः । ज्ञानप्रयुक्ताज्ञानध्वंसस्य प्रतियोगित्वं वा अज्ञानध्वंसादितरध्वंसोत्पत्त्यङ्गीकारे अज्ञानध्वंसप्रयुक्तध्वंसप्रतियोगि तादात्म्यं तत् उक्त प्रतियोगित्वं जीवेशभेदादाविवाज्ञानकार्येपि तत्ता- दात्म्यमज्ञानेऽपीति दृश्यमात्रे तदन्वयः अज्ञानवृत्तिभेदादिप्रतियोगितया सिद्धसाधनस्य वारणाय विशेषणंशशविषाणेति । शशविषाणे विरहप्र- तियोगित्वस्यैवानभ्युपगमात् आदीति | घटादीत्यर्थः । घटादौ चाति- व्याप्तिः सिद्धसाधनं, तथाच पटादिनिष्ठस्य घटाद्यवास्थितिसामान्यावरहस्य ज्ञानाप्रयुक्तत्वान्न सिद्धसाधनमिति भावः । शुक्तिरजतादेः परानी- कृतमसत्त्वं निरस्यति – युक्तीति । प्रतिपन्नोपाधौ स्वरूपेण निषेध्य- स्यापि नासत्त्वं, असद्विलक्षणरूपं विनाप्यापरोक्ष्ये शशविषाणेऽपि तत्स्या- दिति भावः । एतेन - " अवस्थित्या सामान्यं विशेष्यते विरहो वा, आद्ये अवस्थिति सामान्य कारणात्मनाऽवस्थितिः कारणमिति यावत् । तथाच ज्ञानप्रयुक्ताभावप्रतियोगिकारणकत्वे वाच्ये उत्तरधीप्रयुक्ताभावप्रतियो- 96 [ प्रथमः तस्य