पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैत सिद्धो [ प्रथमः कत्वाविद्यकत्वाभ्यां भेदः; मायाविद्ययोरभेदात्, अर्थगतविशे- विशेषः; , षाभावे तदयोगाच्च । नाप्यर्थक्रियाकारित्वाकारित्वाभ्यां स्वामघटादौ स्वानजलाहरणाद्यर्थक्रियादर्शनात् । न चार्थ- क्रियायां व्यावहारिकत्वं विशेषणम्; अन्योन्याश्रयात्, स्वाभा- ङ्गनालिङ्गनादौ प्रातिभासिके व्यावहारिकसुखजन केऽतिव्याप्तेश्च । नापि ब्रह्मज्ञानबाध्यत्वतद्भिन्नज्ञानबाध्यत्वाभ्यां विशेषः; त्वन्मते रूप्यादेरपि शुक्तथवच्छिन्नब्रह्मधीबाध्यत्वात् ब्रह्मण्यध्यस्तस्य क्षणिकत्वादेरपि प्रातिभासिकस्य ब्रह्मधीबाध्यत्वेनातिप्रसङ्गाच्च । नापि ब्रह्मप्रमाबाध्यत्वतदन्यप्रमाबाध्यत्वाभ्यां विशेषः; त्वन्मते ब्रह्मज्ञानस्यैव प्रमात्वात् । नापि प्रमाबाध्यत्वभ्रान्तिबाध्य - त्वाभ्यां विशेषः; भ्रान्तिवाध्यत्वस्य ब्रह्मण्यपि सत्त्वात् । नापि पारमार्थिकविषयधीबाध्यत्वव्यावहारिकविषयधीबाध्यत्वा- भ्यां विशेषः; अन्योन्याश्रयात् । नाप्यन्योन्येतरत्वाभ्याम् ; 190 इत्यादिश्रुतिरेव मानमिति बोध्यम् । अर्थगतेति । व्यावहारिक- प्रातीतिकयोरविशेषाहूयोरपि मायिकत्वमाविद्यकत्वं वा स्यादिति भावः । ब्रह्मधीबाध्यत्वेन ब्रह्म न क्षणिकमिति धीबाध्यत्वेन | त्वन्मत इति । तथा च तदन्यप्रमात्वमप्रसिद्धमिति भावः । भ्रान्तिबाध्यत्वस्य ब्रह्म मिथ्येति अन्त्या मिथ्यात्वेन ज्ञाप्यत्वस्य | अन्योन्याश्रयादिति । पारमार्थिकत्वस्य ज्ञानात्तद्घटितव्यावहारिकत्वस्य ज्ञानम्, व्यावहारिक- - त्वे च ज्ञाते व्यावहारिकप्रातीतिकान्यत्वं पारमार्थिकत्वं ज्ञेयमित्यन्यो- न्याश्रयात् । अन्योन्येतरत्वाभ्यां व्यावहारिकान्यत्वाभ्याम् । 1 1 1 न्यत्त्वप्रातीतिकान्यत्वाभ्यां -ग. ·