पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

184 सव्याख्यायामद्वैतसिद्धी [प्रथम: सच्चेति । तदुक्तम्- 'प्राग्व्यावहारिकसत्त्वविषयत्वात्प्रत्यक्षं नाग- मबाधक' मिति । परमार्थसत्त्वमादाय त्रिविधं सत्त्वम् ॥ इत्यद्वैतसिसिद्धौ भ्रमस्य वृत्तिद्वयोपपत्तिः ॥ अथ सत्तात्रैविध्योपपत्तिः ननु एवं सत्त्व त्रैविध्यविभागो नोपपद्यते, प्रातिभासिका दप्यपकृष्टस्य स्वामरूप्यस्य व्यावहारिकादप्युत्कृष्टाया अविद्या निवृत्तेः सद्भावादिति चेन्न; स्वाने प्रातिभासिक निकृष्टत्वे प्रमाणाभावात् । तथाहि --- प्रातिभासिकत्वं हि प्रतिभासमात्र- सत्त्वम्, तच्च स्वप्नजागरयोः समानम् | ननु – जागरेऽधिष्ठान तावच्छेद केद मंशस्याधिकसत्ताकत्वम्, स्वप्नकाले तस्यापि प्राति- भासिकत्वमित्येव निकृष्टत्वमिति – चेन्न; स्वमे हीदमो नाधि- ष्ठानतावच्छेदकत्वम् तुल्यवदारोप्यत्वात् । तत्राधिष्ठानमविद्या- तर्कैः सारस्वतै रत्नैश्चन्द्रिकाचन्द्रभूषणैः । दुरन्तध्वान्तभङ्गाय भ्रमे वृत्तिद्वयं मतम् || - , इत्यद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां भ्रमस्य वृत्तिद्वयोपपत्तिः ॥ अथ सत्तात्रैविध्योपपत्तिः - आरोप्यत्वादिति । यत्तु – स्वामेद मंशस्याधिष्ठानतानव'च्छेद- कत्वेऽपि बाध्यत्वाभावाद्वाध्यरूप्यादुत्कृष्टत्वमिति प्रकृते विवक्षितमिति- 1 नताव- क. ग.