पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैत सिद्धौ [प्रथमः रैक्यमुपचर्यत इति – वाच्यम्; एवमेकत्वप्रतिपादक प्रयोगसम- र्थनेऽप्यनुभवविरोधस्यापरिहारादिति – चेन; विषययोरभेदा- ध्यासे ज्ञानयोरप्यभेदाध्यास इत्यस्योपचारशब्दार्थत्वेनानुभव- विरोधाभावात् । न च – तार्ह धारावाहिकज्ञानेष्वैक्या ध्यासा- पत्तिः, विषयैक्यज्ञानस्यारोपनिदानस्य सत्त्वादिति – वाच्यम्; आरोपस्य कारणानापाद्यत्वात् । न च विषयैक्यस्य ज्ञानैक्या- ध्यासनिमित्तत्वं न दृष्टमिति – वाच्यम्; पूर्वोक्तयुक्तथा ज्ञान- न भेदे सिद्धेऽपूर्वकल्पनायामपि दोषाभावात् । यद्वा - यथेदमंशा- वाच्छन्नचैतन्यगताविद्यापरिणामत्वाद्र्यमिदंत्वेन भाति, तथेद- माकारान्तःकरणवृत्त्यवच्छिन्न चैतन्यगताविद्यापरिणामत्वेन रूप्य- ज्ञानमिदंज्ञानत्वेन भाति । न च तर्हि बाधकाद्विषय- योरिव ज्ञानयोरपि भेदधीप्रसङ्गः; विषयभेदग्रहज्ञानभेदग्रह- योर्भिन्नसामग्रीकत्वनापादनस्याशक्यत्वात् । केचित्तु — भ्रम- परोक्षभ्रमे इन्द्रियजन्याधिष्ठानज्ञानस्यानियमादपरोक्षश्रमेत्युक्तम् । कार- णानापाद्यत्वादिति । यज्जातीय कारणं यज्जातीयारोपे क्वचिदृष्टं तज्जातीयात्सर्वस्मात्तज्जातीयम्यानापाद्यत्वादित्यर्थः । फलबलाद्दोषाणां विशिष्यैव हेतुत्वमिति भावः । अशक्यत्वादिति । ननु – कदाचि- ज्ज्ञानयोरपि मेदो गृह्येत; सर्वदा तत्र सामग्रयभावस्य वक्तुमशक्य- त्वादिति – चेत्, गृह्यत एव ज्ञानयोः कार्यकारणत्वादिविचारकाले भेद: ; तयोः कार्यकारणत्वानङ्गीकारपक्षे तु मनोऽविद्ययोरेकवृत्तिरूपः परिणामश्चाक्षुषस्मृतिरूपः सुरभि चन्दनमित्याकारपरिणाम इव चाक्षुषा- नुमितिरूपः पर्वतो वह्निमानित्यादिपरिणाम इव चेत्यपि वक्तं शक्यते । न चैवं – रूप्यांदरपि चाक्षुषविषयत्वे सन्निकर्ष कारणत्वादौ व्यभिचार इति --- वाच्यम्; विषयतासंबन्धेन चाक्षुषत्वावच्छिन्नाघि- - - 178