पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

94 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथम तथाच सुगरपातेन घटस्य स्वरूपेणावस्थितिविरहेऽपि कारणा- त्मना अवस्थितिविरहाभावात् ब्रह्मज्ञानप्रयुक्त एव स इति 66 तस्यार्थवत्त्वादित्युक्ता तर्हि कार्याकारो जायत । इति हृद्याशङ्कय कारणे अव्याप्यवृत्तिपटत्वादिसम्बन्धस्योक्तरीत्या सम्पादकत्वमेव तादृशव्यव- स्थापकत्वं अन्यथा कार्यासत्त्वतादवस्थ्यादित्यभिप्रायकमुक्तम् । ततश्च कपालत्वघटत्वयोः भेदात्तदाश्रययोरपि स्वसमसत्ताकभेद: तादृशाभेद- विरोधी इत्याशङ्कय बाल्ययौवनादौ तददर्शनात् न तथेत्युक्तं नच विशेषदर्शनेत्यादिना । ततश्चाव्याप्यवृत्तिघटत्वादिसम्बन्ध एवोत्पत्तिः, ततश्च तादृशभेदश्चावश्यको बालयूनोरपि स इष्ट इत्याशङ्कय तत्रो- त्पत्त्यादिस्वीकारे सङ्कोचविकासाभ्यां एकस्यापि तत्स्यादित्यभिप्रायकं 'न क्षीरे 'त्याधुक्ता तस्मान्मूलकारणमेव तत्तदाकारेण सर्वव्यवहारा- स्पदमित्युपसंहृतम् । उभयथा च दोषात् " इति सूत्रे च भाष्य- भामत्योः वायवीयादिपरमाण्वपेक्षया तैजसादिपरमणूनां स्थूलतैजसादि- द्रव्यस्येव मूर्त्यापचय: आपादितः । तच्चोत्तरीत्या तेजस्त्वादीनां शब्द- स्पर्शरूपादीनां च मेळनात् तज्जन्यविशेषस्य स्थूलतैजसस्थले अनङ्गी- कारादेवोपपद्यते, अन्यथा तत्र स्थूलद्रव्योत्पत्तिस्वीकारे तदसम्भवात् । न च तदखीकारेपि महत्त्व विशेषस्य तैजसत्वादिव्याप्यजातिविशेषस्य च स्थूल इव परमाणावभावान्नोक्कापत्तिरिति वाच्यम्; स्वरूपगुणजातिभिः त्रसरेण्वविशेषस्यैवापादनात्, त्रसरेणौ चोक्तजातिमहत्त्वयोः मानाभा- वात्, महत्त्वमात्रापेक्षया प्रकृष्टस्येवापकृष्टस्यापि महत्त्वस्या नङ्गीकारात् । नी लपति कपालारब्धघटादौ रूपानङ्गीकारेण रूपमहत्त्वयोः कारणताद्वय- कल्पनापेक्षया लाघवेन च रूपमहत्त्वयोः कारणत्वस्थले शक्तिवि- शेषाविशिष्टत्वेन तादात्म्यसम्बन्धेन द्रव्यचाक्षुषहेतुत्वस्वीकारात् । अत 1 न जायते. 2 समसत्ताकं तदेव तादृशभेदविरोधि इति पा. 3 मृधुपचयः