पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

162 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः निर्विकल्प कसाधारण्याभावाच्च । रजतेन्द्रिय सन्निकर्षजस्य रजते रजतत्वप्रकारकज्ञानस्य भ्रमत्वानुपपत्तेः । 'इमे रङ्गरजते' इति भ्रमे विद्यमानोऽपि रजतसन्त्रिकर्षो जनको न भवति, अनुमिता- विव क्वचिद्विद्यमानोऽपि विषयः । अथानुमितेर्विषयजन्यत्वे प्रत्यक्षत्वापत्तिः, अतीतेऽनागते च विषये अनुमितिर्न स्यादिति बाधकम्, रजतप्रत्यक्षस्य रजतसन्निकर्षजन्यत्वे प्रमात्वापत्तिः, असन्निकर्षे च तत्प्रत्यक्षं न स्यादिति बाधकं प्रकृतेऽपि तुल्यम् । यदि तु दोषमहिम्ना रजतसन्निकर्षस्य रङ्गज्ञानांशे जनकत्वम्, रङ्गसन्निकर्षस्य च रजतज्ञानांशे, तदा रजतज्ञानांशे तत्सन्त्रि- क्षणे इन्द्रियसंयोगोत्पत्त्या चाक्षुषाद्युत्पत्तिसंभवादिति भावः । अनिर्व- चनीयख्यातौ विचारितमेतदस्माभिः । ननु – प्रत्यक्ष भ्रमसामान्ये सन्नि- कर्षानुपपत्तिरिति यदुक्तम्, तन्न युक्तम् ; 'इमे रङ्गरजते' इति रङ्ग- रजतयो रजतरङ्गप्रकार के भ्रमे सन्निकर्षसंभवात् तत्राह -- रजतेन्द्रि- येति । रजते रजतत्वप्रकारकेति । यथा रजते रजतत्वं प्रकार- स्तथा रजतमपि स्वस्मिंस्तादात्म्येन प्रकारोऽस्तु; न तु रङ्गे एवेति ज्ञापनायेदमुक्तम् । भ्रमत्वानुपपत्तेरिति । रजतसन्निकर्षस्य तादा- त्म्येन रजतप्रमायां हेतोः सत्त्वात् भ्रममात्रत्वानुपपत्तेरुक्तप्रमात्वापत्तेः । रजतप्रत्यक्षस्य रङ्गे रजतप्रकारकप्रत्यक्षस्य । असन्निकर्षे इदं रजत- मित्यादिभ्रमस्थलीये रजतासन्निकर्षे । दोषमहिना दोषसहकृतत्वेन । रङ्गज्ञानांशे तादात्म्येन रङ्गप्रकारकज्ञानांशे । रजतज्ञानांशे तादा- त्म्येन रजतप्रकारकज्ञानांशे । एवकारः शेषः । रजतादिसन्निकर्षसत्त्वेऽपि न रजतादिप्रकारकप्रमा, दोषेणैव तत्प्रतिबन्धात्, किन्तु धर्मीन्द्रिय- सन्निकर्षसहकृतदोषबलाद्रजतादिप्रकारकभ्रम इत्यर्थः । रजतज्ञानांशे रजतप्रकारकभ्रमांशे । तत्सन्निकर्षाजनकत्वात् रजतसन्निकर्षस्या- ,