पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अविद्याद्यनिर्वाच्यत्वे अर्थापत्तिप्रमाणनिरूपणम् , कत्वमित्युक्तत्वात् । न च तर्हि शाब्दबोधसामान्यसामग्रथा योग्यताज्ञानादेर भावात्कथं परोक्षविकल्पः स्यात् ? अयोग्यता- ज्ञानविरहो हि सामान्यसामग्री, न तु योग्यताज्ञानम्; असं- सर्गाग्रहरूपायोग्यताज्ञानविरहस्य विशिष्टज्ञाने आवश्यकत्वात् । स चासद्बोधके वाक्येऽस्त्येव । न हि शशशृङ्गेऽसत्त्वं नास्तीति जानानः शशशृङ्गमसदित्यवगच्छति । एतन्निबन्धन एवापरोक्ष- प्रतीतौ प्रद्वेषः । एतेन – सन्मांत्राविषयकापरोक्षज्ञानमसद्विष- यकम् सत्वानधिकरणविषयक प्रतीतित्वात् असद्विषयकपरोक्ष- प्रतीतिवत् । न चात्र प्रातिभासिकसाधारणसद्विवक्षायामाश्रया- सिद्धिः, परमार्थसद्विवक्षायां मात्रपदवैयर्थ्यमिति – वाच्यम्; भ्रममात्रस्यैवाधिष्ठानीभूतपरमार्थसद्विषयतया मात्रपदं विना आश्रयासिद्धेर्दुष्परिहरत्वादिति-निरस्तम्; सामग्रीविरहेण बाधात्, शाब्दत्वस्योपाधित्वात्, धर्मादिकमपरोक्षप्रतीतिविषयः, प्रतीति- विषयत्वादित्याद्याभाससाम्याच्च । किंचासतो रूप्यस्यापरोक्ष- प्रतीतिविषयत्वे शशशृङ्गादेरप्यपरोक्षप्रतीतिविषयत्वं स्यात्, विशे- घटितमेवापाद्यतां, किं प्रत्यक्षनिवेशेनेति – वाच्यम्; असतः प्रत्यक्ष- विषयत्वस्य पराभ्युपगतस्य निरासाय प्रत्यक्षघटितस्यापाद्यतया प्रति- ज्ञानात्, सामान्यसामग्री प्रत्यक्षसामान्यहेतुः प्रातिभसिकत्वपक्षे, प्राति- भासिकत्वमतंऽपि सामान्यधर्मावच्छेदेनैव प्रमाणवृत्तेभ्रमे प्रत्यक्षत्वे चाक्षु- षत्वादौ वा स्वीकृते सन्निकर्षजन्यत्वावश्यकत्वात्, अन्यथा तत्र प्रत्यक्षत्वे इन्द्रियजन्यत्वादौ वा मानाभावात् स्वविशिष्टं प्रति दोषाणामेव हेतु- त्वेनोपपत्तेः । न चास्तु तथा, तथापि साक्षिसंबन्धादेव प्रत्यक्षता भ्रमविषयस्येति–वाच्यम् ; त्वन्मते तस्यासत्त्वेन साक्षिसंबन्धासंभवात्, सदसतोरसंबन्धात्, अन्यथा ह्यसदिति नाममात्रं स्यादिति भावः || , 137