पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः - जनैः स्वकर्मस्तिमितात्मनिश्चयैः आलक्ष्यते ब्रूहि किमत्र तत्त्वम् || इत्युक्तम् । तत्र हि ऋमिकाणां कपालादीनामण्वन्तानां सर्वेषां अतत्त्वता प्रतिपादिता । तत्र कपालिकाद्यन्यस्य ध्वंसादे सम्भवे तदतत्त्वताया अप्रदर्शनात् न्यूनतेति कपालिकादिवत् सोप्युच्येत मही कपालादिः घटत्वं घटः पूर्वावस्थबोत्तरावस्थां प्रति परिणा- मितया कारणम् । अतएव अतएव तयोस्तादात्म्यमित्यावेदायितुमे कपदास- म्भवयोरपि तसिल्प्रत्ययप्रथमयोः भिन्नपदगतत्वेनोक्तिः । अणुः त्रुटिरालक्ष्यते । द्यणुकपरमाणू तु न स्तः । अन्यथा तदतत्त्व- ताया अप्रदर्शनात् न्यूनतापत्तेः । न च त्रुटेः पूर्वसिद्धत्वेन न जन्यतेति वाच्यं; अनन्तत्रुटितत्संयोगादीनां घटादौ पूर्वसिद्धता- कल्पने गौरवात्, घटाद्यनन्तर्गतत्वेन उपलभ्यमानानामेव त्रुटीना- मुत्पत्तिस्वीकारात् । अतएव 'रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ' इति सूत्रे घटादिवत्रुटिरनित्या रूपादेरित्युक्तम् । न चाप्रयोजकत्वं रूपादेरिति वाच्यम् ; पाकादिना घटादिकमुत्पद्यते नश्यति च, न तु घटरूपादिकम्, एकैकास्मिन् बहूनामुत्पत्तिनाशकल्पने गौरवात्, नित्याखण्डरूपादेः तत्र घटादावनुभवानुरोधात्स्वीकार इति न्यायस्य घटादाविव त्रुटावपि तुल्यत्वात् जलीयादित्रुटावपि रूपादीत्यादि- पदेन संयोगादिकल्पनारूपोक्त गौरवापत्तिग्रहणात् अनित्यत्वावश्यक- त्वात् । विवृतमधिकमेतत्सूत्रमुक्तावलौ न । घट: ध्वंस इत्यादि तु व्यवह्नियत एव । घटो ध्वंसत्वमापद्यत इत्यादिव्यवहारात् यदि न व्यवहियते तदा तादात्म्यस्य घञर्थत्वेन ध्वंसतादात्म्यस्य नामार्थस्य घटादावभेदान्वयासम्भवात् । अतएव साधु: ध्वंस इत्या- दिप्रयोगः । अन्यथा धात्वर्थाविशेषणत्वात् साध्वित्येव स्यात् । एवंच नश्यतीत्याद्यनुरोधेन परेषामिव न नः प्रतियोगितात्वादिना आख्या- तस्य शक्ति: लक्षणा वा युज्यते, चलति स्फुरति भातीत्यादि- 90 -