पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अविद्याद्यनिर्वाच्यत्वे अर्थापत्तिप्रमाणनिरूपणम् 129 -- केचित्तु – सदित्यसत एव विलक्षणमिह विवक्षितम्, न च - असत एवेत्यवधारणस्य सदसद्विलक्षणं न चेदित्यर्थपर्यव- सानेन प्रतियोग्यप्रसिद्धया आपादकाप्रसिद्धिरिति – वाच्यम्; प्रतियोगिप्रसिद्धेरनुमानेन प्रागेव साधितत्वात् । न च सदस- द्विलक्षणं न चेदित्यत्र सत् किमिति पूर्वविकल्पप्रसरः, प्रामा- णिकत्वरूपसच्चे दोषानवकाशात् । न च बाधेनैवानिर्वाच्यत्व- सिद्ध्या ख्यात्युक्तथ्योगः; तस्या अर्थापत्यन्तरत्वात् एकत्वोक्तिस्तु प्रयोजनैक्यादिति कण्ठतस्तात्पर्यतचेति-आहुः ।। यद्वा - अबाध्यत्वमेव सच्चम् ; न च तर्हापाद्यावैशि- ष्टयम्, अबाध्यत्वं हि त्रैकालिकनिषेधाप्रतियोगित्वम् । तेन च विपरीतप्रमाविषयत्वाभाव आपाद्यत इति नापाद्या वैशिष्टयम् । व्यवहारस्यापाद्यत्वेन वा नापाद्यावैशिष्टयम् न च – बाध्य आकरे - न्यूनसत्ताकत्वस्य बाधकत्वा भावे तन्त्रत्वोक्तयोपपादनस्य मिथ्यात्वानुमान- प्रस्तावे कृतत्वादित्यर्थः । तथाच द्वैतानेषेधस्येव रूप्यादिबाघकस्या- तत्त्वावेदकत्वेऽपि बाधकत्वं दृष्टान्तासिद्धिश्चेति भावः ॥ - केचित - अस्मदीयाः । पर्यवमानेनेति । एतन्मते असञ्चेन्न प्रतीयेते त्यस्यानिर्वाच्यत्वसाधकार्थापत्त्यन्तराभिप्रायकत्वस्य वक्ष्यमाण- त्वात्, सच्चेन्न बाध्येतेत्यस्यापि सदसदन्यत्वसाधकत्वस्थावश्यकत्वात्सत्वं सदसद्विलक्षणान्यत्त्वपर्यवसितमिति भावः । तस्याः – ख्यात्युक्तेः । अर्थापत्यन्तरत्वात् – सदसद्विलक्षणं न चेन्न प्रतीयेतेत्यर्थापत्त्यन्तर- सहकारितर्कान्तरपरत्वात् । प्रयोजनैक्यात् – सदन्यत्वसिद्धिरूपफलै- क्यात् । आहुरिति । केचिदित्यनेन पूर्वनिर्दिष्टाः स्वमतमित्थं व्याकुर्वत इत्यर्थः 1 त्रैकालिकेति –स्वाधिकरणवृत्तीत्यादिः । विपरीतप्रमा– स्वाधिकरणे निषेध्यत्वप्रमा | व्यवहारस्य अबाध्यत्व- A. VOL III. 9