पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] परस्परविरहानात्मकत्वात् । - मिथ्याभूते सच्चासच्चयोरभावः स्यादित्याहुः । उक्तसत्त्वा- सच्चयोः परस्परविरहव्याप्यत्वेऽपि उक्तनित्यत्वानित्यत्ववत् । ननु – इदं नित्यत्वानित्यत्वयोर्मि- लितयोर्व्यतिरेकः सामान्ये प्रागभावे चास्तीत्युक्तमयुक्तम् ; नित्यत्वस्य सामान्यानुगतध्वंसाप्रतियोगित्वरूपत्वात्, अनि- त्यत्वस्य च प्रागभावस्यापि प्रतियोग्येव ध्वंसः, भावस्यैवाभावो निवृत्तिः, अभावस्य तु भाव एवेति स्वीकारात् । ध्वंसोपलक्षि- तानुपलक्षितसत्ताराहित्यरूपपारिभाषिकनित्यत्वानित्यत्वयोरेकत्र- सामान्यादौ भाववदेकत्र सत्त्वासचे स्यातामित्यपि स्यादिति - चेन्न; न हि वयं दृष्टान्तमात्रेण सत्त्वासत्त्वयोरेकत्र स्थितिं ब्रूमः, येन ध्वंसोपलक्षितानुपलक्षितसत्ताराहित्यरूपपारिभाषिकनित्य- त्वानित्यत्वयोरेकत्र सामान्यादौ सद्भावनिदर्शनेन सत्त्वा- सत्त्वयोरेकत्र सत्त्वमुच्येत । किंतु प्रमाणैः सिद्धे निषेध- समुच्चये सामान्यादिव्यावृत्तनित्यत्वानित्यत्ययोर्निषेधसमुच्चयं दृष्टान्तयामः । एवं च सामान्याद्यनुगतत्वदुक्तनित्यत्वानित्य- त्वयोर्निषेधसमुच्चयस्यादृष्टान्तत्वेऽपि न क्षतिः । अत एवोक्त- मध्यस्ते नित्यत्वानित्यत्वयोरिव सत्त्वासत्वयोरप्यभावौ न विरुद्धौ ; धर्मिण एव कल्पितत्वेन विरुद्धयोरपि धर्मयोरभावा- दिति । न चैवं कल्पितस्यानित्यत्वाभ्युपगमविरोधः; तात्त्वि- कानित्यत्वाभावेऽपि धर्मिसमसत्ताकानि त्यत्वसवेनाभ्युपगमे अनिर्वाच्यत्वलक्षगोपपपत्तिः A. VOL III. 1 तिस्तत्प्रतियोगित्वम् । आहुः अस्मदाचार्याः । न चैवमिति । एवं कल्पितस्य नित्यत्वानित्यत्वयोरभावस्वीकारे । तात्त्विकानित्यत्वाभावे- 1 योरभावाविव. 113