पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्याया गुरुचन्द्रिकायां [ प्रथमः चेन्न; तादात्म्यप्रतियोगिव्यावहारिकहेम'कटकादिविरहाप्रयोजकत्वादिति न हि यन्निष्ठतादात्म्यप्रतियोगित्वावच्छिन्नप्रतियोगिताकाभावः ज्ञानप्र- युक्तः तत्त्वमित्यव लक्षणं, येन व्यावहारिकहेमादेः प्रातीतिके कट- कादौ तादात्म्यारोपादुक्तदोषः, किन्तु यान्निष्ठतादात्म्यस्य यत्समसत्ता कप्रातयोगिसामान्याभावो ज्ञानत्रयुक्तस्तत्त्वम् । यत्पदाभ्यामे कैव लक्ष्य- व्यक्तिर्धार्या । अतएव शुक्तिरूप्यादितादात्म्यप्रतियोगीदमाद्यभावस्य शुक्तिज्ञानाप्रयुक्तत्वेऽपि न क्षतिः । एतेन – “इहेदानीं घटप्रागभाव इति लोकाननुभवादिहेदानीं घटो नेति बुद्धेः सामयिकात्यन्ताभाववि- षयकत्वान्न प्रागभावे अत्यन्ताभावातिरिक्त मानम्" इति दििघत्युक्तम- पास्तम् । इह मृदि घटो नेति बुद्धेः कपालाद्यवस्थारूपप्रागभा- वावगाहित्वात् कपालादेश्च घटादितादात्म्यादत्यन्ताभावत्वाभावात् तत्र घटात्यन्ताभावत्वे मानाभावात् । न च तत्र पूर्वत्वरूपाखण्डधर्म- कल्पनेनैव व्यवहारनिर्वाहे प्रागभावत्वकल्पने मानाभाव इति वाच्यम्; पूर्वत्वोत्तरत्वयोरेव प्रागभावत्वध्वंसत्वरूपतास्वीकारात् । न च घटादे- यधिकरणेऽपि तन्निरूपितयोस्तयोः सत्त्वाद्धटादरनधिकरणेऽपि तत्प्राग- भावध्वंसयोर्व्यवहारापत्तिरिति वाच्यम् ; अत्र घटप्रागभावः अत्र घट- ध्वंस इति व्यवहारे पूर्वत्वोत्तरत्वयोः तन्निरूपितत्वस्येव तदाश्रये सामा- नाधिकरण्यस्य तादात्म्यस्य वा घटसंसर्गतया भानात् । इह मृदि घंटो नेत्यादिबुद्धौ घटादेः विरोधिसंसर्गाभावस्य विषयत्वेन घटादिप्राग- भावादिमति घटाद्यन्तरवति नोक्तबुद्धिः । न चेह न. घट इत्या- दिबाक्ये नञो विरोधिनि लक्षणा पत्तेनेंदं युक्तमिति वाच्यम् ; नञर्थे संसर्गाभावे घटत्वादिरूपान्वायतावच्छेदकावच्छिन्नाधिकरणावृत्तित्वरू- पविरोधस्य घटादेः प्रतियोगिनः संसर्गतया भानात् । अतएव घटसंयुक्ते न घटसंयोग इतिवदन्नुपहास्यते । घटसंयुक्त अन हेमादेः, ^2 विरोधिलक्षणा. थे 88