पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ 104 , जीवन्मुक्त विषयत्वमपि ; तस्यावरणशक्तिनिबन्धनाध्यासाभा- वेऽपि विक्षेपशक्तिनिबन्धनाध्याससंभवात् । न चैवं कदाचि- दध्यासस्य प्रयोजकत्वे महापातकेन नष्टब्राह्मण्यस्याप्यधिकार- प्रसङ्गः; तत्र महापातकस्यैवानधिकारप्रयोजकत्वम्, न तु ब्राह्मण्याभावस्य; 'पतितो ब्राह्मण' इति व्यवहारेण तदभाव- स्यैवाभावात् । तथाचोक्तं भाष्ये –'सर्वाणि विधिनिषेध- शास्त्राण्यध्यासमूलानी 'ति । प्रमातृत्वाद्यन्यथानुपपत्तिरप्यध्यासे मानम् । कदाचिदध्यासस्यैव प्रयोजकत्वेन सुषुप्तौ तदभावेऽपि णोऽहमित्यध्यासानियमेऽपि ब्राह्मणदेहप्राणवियोगानुकूलव्यापाररूप- ब्राह्मणहननत्वस्य सुषुप्तहननेऽपि सत्त्वात्, 'ब्राह्मणो न हन्तव्य' इत्यादे: सुषुप्तब्राह्मणहनन निषेधकत्वमव्याहतम् । एवं जीवन्मुक्त- शरीरादावपि ब्राह्मणत्वानपायाद्धनन निषेधादिश्रुतिविषयत्वमिति ध्येयम्॥ आवरणशक्तिनिबन्धनेति । पूर्णानन्दरूपं मे नास्ति न भाती- त्यादिरूपेति शेषः । विक्षेपशक्तिनिबन्धनेति । प्रारब्धकर्माधीनब्राह्म- ण्याद्यध्यासरूपेति शेषः । अधिकारप्रसङ्ग इति । तथाच ब्राह्मण्या- भावस्यैवानधिकारप्रयोजकत्वं हननादिनिषेधाविषयत्वेऽपि स प्रयोजकः स्यादिति भावः । न तु ब्राह्मण्याभावस्येति । वस्तुस्थितिरियमुक्ता । ब्राह्मण्याभावस्यानधिकारप्रयोजकत्वेऽपि निषेधाविषयत्वे तस्य काढ़ा- चित्कस्य न प्रयोजकत्वम् ; सुषुप्तौ हननादेः शिष्टविगीतस्येव बाधक- त्वादिति ध्येयम् । तथाचोक्तमिति | विधिनिषेधश्रुतिस्थब्राह्मणादिपद- मुक्तरीत्याध्यासार्थकमुक्तं चेत्यर्थः । प्रमातृत्वादीत्यादिना ज्ञातृत्वादि गृह्यते । अध्यासे – देहेन्द्रियादिष्वहं ममाभिमाने । प्रयोजकत्वे- नेति । सुषुप्तावित्यादि निरस्तमिति योजना | तदभाव इति । यद्यपि ज्ञातृत्वं सुषुप्तावविद्यावृत्तिघटितत्वान्न देहेन्द्रियाध्यासमपेक्षते, अविद्या- [[प्रथमः -