पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेद:] देहात्मैक्याध्यासोपपत्तिः 97 न चैवं 'देहो ब्राह्मणो मनुष्य' इत्यादिप्रतीत्यापत्ति: ; अहंत्व- सामानाधिकरण्यभ्रमजनकदोषस्यैव तादृक्प्रतीतिप्रतिबन्धकत्वा- दुक्तबाधकैर्देहवृत्तित्वेऽनन्यगतिकत्वेन तथा कल्पनात्, 'कृशोऽहं कर्तृत्वादिद्वयस्येव ब्राह्मणत्वादिद्वयस्यापि त्वया वाच्यत्वेनात्मनिष्ठमेव ब्राह्मणत्वादि स्वीक्रियताम्, न तु देहनिष्ठमिति - पराम्तम् । यत्त्व- तीन्द्रियघटितस्य व्याप्तया देरिवातीन्द्रियात्मवृत्तेर्ब्राह्मणत्वादेरंप चाक्षुष- त्वम्, आत्मनश्चक्षुराद्ययोग्यत्वेऽप्युपनयसन्निकर्वेण चाक्षुषविषयत्व संभ- वाज्जाते: स्वाश्रयाविषयकप्रत्यक्षाविषयत्वनियमो न भन इति तच्छा- भते ; व्याप्तयादेर्लोकिकचाक्षुषासिद्ध्या दृष्टान्ता सिद्धेः । लौकिकचाक्षुषं विना जातिलौकिकचाक्षुषस्यासंभवाच्च ॥

आश्रय- . -- अथ स्वदेहे उक्तधीरापाद्यते, परदेहे वा । नान्त्यः; इष्टत्वात्, चक्षुषा दृश्यमानोऽवयवी ब्राह्मण इतिवदयं देहो ब्राह्मण इत्यस्यापि संभवादित्यभिप्रेत्य नाद्य इत्याह - अहंत्वेति । दोषस्य अहं ब्राह्मण इत्यादिभ्रमजन्यवासनादेः । ब्राह्मणत्वविशिष्टप्रत्यक्षकालेऽहं ब्राह्मण इत्येव धीर्जायते न तु देहो ब्राह्मण इत्यतस्तत्सामग्रयास्तत्प्रतिबन्धकत्वमगत्या कल्प्यत इत्याह – उत्तेति । यदि च परदेहे अयं देहो ब्राह्मण इति न प्रत्ययः, तदा तत्रापीयं रीतिरिति भावः; वस्तुतो देहत्वावच्छिन्न- भेदावच्छेदकतया गृहीताहंत्वादेब्रह्मणत्वाद्यवच्छेदेन भ्रमो देहत्वाद्यव- च्छेदेन ब्राह्मणत्वाद्यवच्छिन्नभेदभ्रमश्च देहो ब्राह्मण इत्यादिधीप्रति- बन्धकतया क्लृप्तः, तज्जनकत्वेन वासनादेस्तत्प्रतिबन्धकत्वमपि क्लृप्तमेव, देहत्वानवच्छिन्नदेहविशेष्यताकं ब्राह्मणत्वादिप्रत्यक्षं तूक्तविशेषदर्शना- प्रतिबध्यं जायत एव । न च देहो न ब्राह्मण इति धीरेव देहो ब्राह्मण A. VOL III. 7