पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्याय।मद्वैतसिद्धौ 76 [प्रथमः । प्रकारो भासते; रजतादेस्तत्र प्रकारत्वकल्पने मानाभावात् । तत्कल्पनां विनैवोपपत्तेः, तथा कल्पनायामतिप्रसङ्गादप्रयोजक - त्वाच्च । यद्वा - अत्राप्य ' हं स्फुरामि' 'अहमस्मी' ति द्वयंशता भात्येव 'रूप्यं स्फुरति' 'रूप्यमस्ती' त्यत्रेव । इयांस्तु विशेषः– यत्तत्रेदंत्वावच्छिन्नस्फुरणमधिष्ठान मितीदं रुप्यमिति धी:, इह तु स्फुरणमात्रमधिष्ठानमिति स्फुरामीत्येव बुद्धिः । न च – भ्रमस्याप्यध्यस्तत्वेनाधिष्ठानत्वायोगः, भ्रान्तोऽसि । स्फुरणं चैतन्यं ब्रूमः, न त्वविद्यावृत्यादिकम् । एवं च न प्रत्यक्षमहमर्थस्यात्मत्वे प्रमाणम् | नाप्यनुमानम् । तथा हि — अहमर्थो मोक्षान्वयी, तत्साधनकृत्याश्रयत्वात्, संमतवत, इत्यत्र विशेषव्याप्सौ दृष्टान्ताभावः । न हि कृत्याश्रये मोक्षा- न्वयित्वं क्वचित्संप्रतिपन्नमस्ति; सामान्यव्याप्तेः स्वर्गसाधन कृत्याश्रये ऋत्विजि स्वर्गानन्वयेन व्यभिचारात् । अहमर्थः, अनर्थनिवृत्याश्रयः, अनर्थाश्रयत्वात् संमतवत् इत्यत्र शरीरे स्योल्लेखादित्याशयेनाह – यद्वेति । द्वयंशता भिन्नप्रकारावच्छिन्ना- घिष्ठानारोप्योभयस्फुरणम् | स्फुरणस्वरूपमधिष्ठानम् | स्फुरणत्वविशिष्ट- स्याध्यस्तत्वेऽपि नाधिष्ठानत्वम्, किंत्वाधारत्वम् ; पूर्णानन्दस्वरूप- स्यैवाविद्याविषयत्वेनाधिष्ठानत्वात् । अहमाकारवृत्त्यवच्छिन्नचित्तु ना- धारोऽपीति तत्राधिष्ठानत्वोक्तिमढ्यादेव । न च – ज्ञानस्य ज्ञेयाधि ष्ठानत्वेन सा तथेति - वाच्यम्; यदधिष्ठानं तस्यारोप्यज्ञानस्वरूपत्वम्, न त्वारोप्यज्ञानत्वेनाधिष्ठानत्वमित्यस्यासकृदुक्तत्वात् । विशेषव्या प्राविति । मोक्षान्वयित्व मोक्षसाधनकृतित्वाभ्यां व्याप्त वित्यर्थः । सामान्यव्याप्तेः यद्यत्साधनकृतिमत्तत्तदन्वयीति व्याप्तेः । ऋत्वि- जीति । अपरिक्रीतत्वे सतीति विशेषणेऽपि जातेष्ट्यादिकृत्याश्रये १ ,