पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अहमर्थानात्मत्वोपपत्तिः चिदचित्संवलनात्मकत्वादध्यस्तः | तस्य चाचितोऽन्तःकरण- स्योपरमे उपरतिः । 'अथातोऽहंकारादेशः अथात आत्मादेश ' इति श्रुतिरपि पृथगुपदेशेन पार्थक्ये प्रमाणम् । नन्वात्मनस्त्व- न्मते ' स एवाधस्ता' दित्युपदिष्टेन भृम्नेवाहंकारेणाप्यै क्येऽपि पृथगुपदेशो युक्तः । नच – भूमात्मनोर्भिन्नत्वेन प्रत्यक्षसिद्धयोः पृथगुपदेश ऐक्यार्थः, द्वयोः सार्वात्म्यायोगात्, अहंकारस्य बन्धीति । अचित्परिणामेत्यर्थः । तथाचाहमर्थस्यावच्छिन्नचिद्रूपेण कर्तृत्वादिपारणामाश्रयत्वेन चानुभवाच्चिदचिद्घटितत्वामिति भावः । उपरतिरिति ।। परिच्छेदः] 57 - - 6 6 ननु – सङ्कल्परूपवृत्तिविशिष्टं मनः, अहमाकारवृत्तिविशिष्टोऽ- हंकारः, तथाच मनोलयोक्तया नाहंकारलयलाभ इति – चेन्न; 'कामः सङ्कल्पो विचिकित्से' त्यादिना वृत्तिमात्रमुक्ता, 'एतत्सर्वं मन एवे' त्य- ने श्रुतौ सर्ववृत्त्युपहि' मनस्त्वोक्तया, 'गृहीतं मन' इत्यादि- श्रुतावपि मनःसर्ववृत्त्युपहितोक्तेः, अन्यथा ' सुषुप्तिकाले सकले विलीन' इत्यादिश्रुतीनां सुपुते: सुषुप्तित्वस्य च व्याघातात् । न हि सुषुप्तावह- माकारवृत्तिरध्यवसायादिवृत्तिर्वा केनाप्यनुभूयते । यत्तु वृत्तिसामान्या- भाव एवोपरतिः प्रकृतश्रुत्यर्थः, न तु लय इति – तत्तुच्छम् ? मनसो वृत्त्यवस्थारूपस्थौल्यत्यागे सूक्ष्मतैवावारीप्यते, सैव च तस्य लयः; कारणस्थ सूक्ष्मावस्थाया एव शास्त्रे लयशब्देनोच्यमानत्वात् । यदपि - मन आहंकारिकं न त्वहंकार इति तन्न; उक्तसाङ्ख्यप्रक्रियाया 'अण- वश्चेति सूत्रभाष्यादिदूषितत्वात् || प्रत्यक्षसिद्धयोरिति । भेदस्य ज्ञातत्वेन श्रुतितात्पर्याविषयत्व- मित्यर्थ: । पृथगुपदेशः सार्वात्म्येन पृथगुपदेशः । ऐक्यार्थ: अत्य न्ताभेदतात्पर्यकः । सार्वात्म्यायोगादिति । सार्वात्म्यं हि बाधाया- 1वृत्त्युपहितस्य - ग. 2 कारणस्य - ग.