पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अहमर्थानात्मत्वोपपत्तिः 53 1 तदज्ञानविजृम्भितम् ; न हि साक्षिवेदनमज्ञानविरोधि । सुषुप्तौ च यथाहमर्थानत्रभासस्तथोक्तम् । 'न विजानात्ययमहमस्मी' ति सुषुप्तिविपया श्रुतिरपि तदानींतनाहमर्थाज्ञाने प्रमाणम् । न चेयं श्रुतिः 'नात्मानं न परांचे 'ति सुषुप्तावात्माज्ञान- श्रुतिवाद्वशेषाज्ञानपरा, 'अहरहर्ब्रह्म गच्छन्ति सति संपद्य न विदु' रित्यात्मवेदनबोधकश्रुतिविरोधेन विशेषाज्ञानपरत्वं युक्तम्, न च प्रकृते तथा; विरोधाभावात् । यत्तु - अहमर्थ - स्तावत्स्मर्ता, स चाविद्यावच्छिन्नचैतन्यं वा, अन्तःकरणा- --- नन्दांशे, तथा मन्मतेऽहमर्थांशेऽपि नाज्ञानामति भावः । न हीत्यादि । तथाच चिन्मात्रस्य स्वप्रकाशस्याप्यज्ञातत्व संभवात्साक्षिवेद्यस्यापि त्वद- भ्युपगताहमर्थम्याज्ञातत्वसंभवाच्च दृष्टान्तदाष्टन्तिकावयुक्ताविति भावः । न विजानातीति । 'नाह खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहम- स्मीति नो एवेमानि भूतानी' ति छान्दोग्यश्रुतेरर्थतो ग्रहणमिदम् । नाहेति हशब्दः प्रसिद्धौ, दीर्घत्वं छान्दसम्, नाशब्द एव निषेधार्थो (वा) ‘ अमानोनाः प्रतिषेधार्था' इति शाब्दिकोक्तेः । नात्मानमित्यादि । ‘ नात्मानं न परांश्चैव न सत्यं नापि चानृतम् | प्राज्ञः किंचन संवेत्ति तुरीयं सर्वदृक् सदा ' || इति गौडपादे|क्तश्रुतिर्यथात्मनः परान्यत्वेनाज्ञानं बोधयति । तथा नाह खल्बग्रमित्यादिश्रुतिरपि परान्यत्वेनाहमर्थाज्ञान बोधयतीत्यर्थः । दृष्टान्तदान्तिकयोर्वैषम्येन दूषयति-अहरहर्ब्रह्म गच्छन्तीति । ‘सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढा' इति श्रुतेर ग्रहणम् | वेदनबोधकेति । ब्रह्मगमनसत्सम्पत्त्योः कार्यो- पाधिशून्यमाक्षिरूपेण प्रकाशमानत्वरूपतयोक्तश्रुतेरात्मवेदनबोधकत्वम् || 1 सुषुप्त.